Adhyātma Rāmāyaṇa · The Oath of Sītā and the Instruction of Kausalyā
Tap a verse for its meaning
- 1श्रीमहादेव उवाच । बोधितोऽसौ कुशः सद्योगतभ्रमः । बहिः सर्वमनुकुर्वंश्चकार सः ॥
- 2वाल्मीकिरपि तौ प्राह ।तत्र तत्र च गायन्तौ पुरे वीथिषु सर्वतः ॥
- 3प्रगायेतं शुश्रूषुर्यदि राघवः ।न ग्राह्यं वै युवाभ्यां तद्यदि किञ्चित्प्रदास्यति ॥
- 4इति तौ चोदितौ तत्र विचेरतुः ।यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् ॥
- 5तां स शुश्राव पूर्वचर्यां ततस्ततः ।अपूर्वपाठजातिं च गेयेन समभिप्लुताम् ॥
- 6बालयो राघवः श्रुत्वा कौतूहलमुपेयिवान् ।अथ कर्मान्तरे राजा समाहूय ॥
- 7राज्ञश्चैव पण्डितांश्चैव नैगमान् ।पौराणिकान् शब्दविदो ये च वृद्धा द्विजातयः ॥
- 8एतान् सर्वान् समाहूय समवेशयत् ।ते सर्वे हृष्टमनसो राजानो ब्राह्मणादयः ॥
- 9रामं तौ दृष्ट्वा विस्मिताः ह्यनिमेषणाः ।अवोचन् सर्व एवैते परस्परमथागताः ॥
- 10इमौ रामस्य बिम्बाद्बिम्बमिवोदितौ ।जटिलौ यदि न स्यातां न च ॥
- 11विशेषं नाधिगच्छामो राघवस्यानयोस्तदा ।एवं संवदतां तेषां विस्मितानां परस्परम् ॥
- 12उपचक्रमतुर्गातुं तावुभौ ।ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ॥
- 13श्रुत्वा तन्मधुरं गीतमपराह्णे ।उवाच भरतं चाभ्यां दीयतामयुतं वसु ॥
- 14दीयमानं सुवर्णं तु न तज्जगृहतुस्तदा ।किमनेन राजन्नौ ॥
- 15इति सन्त्यज्य सन्दत्तं जग्मतु ।एवं श्रुत्वा तु चरितं रामः स्वस्यैव ॥
- 16ज्ञात्वा तौ शत्रुघ्नं चेदमब्रवीत् ।हनूमन्तं सुषेणं च विभीषणमथाङ्गदम् ॥
- 17भगवन्तं महात्मानं वाल्मीकिं ।आनयध्वं मुनिवरं ससीतं ॥
- 18अस्यास्तु पर्षदो मध्ये प्रत्ययं ।करोतु शपथं सर्वे जानन्तु ॥
- 19सीतां तद्वचनं श्रुत्वा गताः सर्वेऽतिविस्मिताः ।ऊचुर्यथोक्तं रामेण वाल्मीकिं ॥
- 20रामस्य सर्वं ज्ञात्वा वाल्मीकिरब्रवीत् ।श्वः करिष्यति वै सीता जनसंसदि ॥
- 21योषितां परमं दैवं पतिरेव न संशयः ।तच्छ्रुत्वा सहसा गत्वा सर्वे प्रोचुर्मुनेर्वचः ॥
- 22राघवस्यापि रामोऽपि श्रुत्वा मुनिवचस्तथा ।राजानो मुनयः सर्वे शृणुध्वमिति चाब्रवीत् ॥
- 23सीतायाः शपथं लोका विजानन्तु शुभाशुभम् ।इत्युक्ता राघवेणाथ लोकाः सर्वे ॥
- 24क्षत्रिया वैश्याः शूद्राश्चैव महर्षयः ।वानराश्च समाजग्मुः कौतूहलसमन्विताः ॥
- 25ततो मुनिवरस्तूर्णं समुपागमत् ।अग्रतस्तमृषिं कृत्वाऽऽयान्ती किञ्चिदवाङ्मुखी ॥
- 26कृताञ्जलि सीता यज्ञं विवेश तम् ।दृष्ट्वा लक्ष्मीमिवायान्तीं ब्रह्माणमनुयायिनीम् ॥
- 27वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।तदा मध्ये जनौघस्य प्रविश्य ॥
- 28सीतासहायो वाल्मीकिरिति प्राह च राघवम् ।इयं दाशरथे सीता ॥
- 29ते पुरा त्यक्ता ममाश्रमसमीपतः । त्वया राम महावने ॥
- 30प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ।इमौ तु सीतातनयाविमौ ॥
- 31सुतौ तु तव दुर्धर्षौ तथ्यमेतद्ब्रवीमि ते ।प्रचेतसोऽहं दशमः पुत्रो रघुकुलोद्वह ॥
- 32अनृतं न स्मराम्युक्तं तथेमौ तव पुत्रकौ ।बहून् वर्षगणान् सम्यक् मया कृता ॥
- 33नोपाश्नीयां फलं तस्या दुष्टेयं यदि ।वाल्मीकिनैवमुक्तस्तु प्रत्यभाषत ॥
- 34एवमेत यथा वदसि सुव्रत ।प्रत्ययो जनितो मह्यं तव वाक्यैरकिल्बिषैः ॥
- 35लङ्कायामपि दत्तो मे प्रत्ययो महान् ।देवानां पुरतस्तेन सम्प्रवेशिता ॥
- 36सेयं लोकभयाद्ब्रह्मन्नपापाऽपि पुरा ।सीता मया परित्यक्ता भवांस्तत्क्षन्तुमर्हति ॥
- 37ममैव जातौ जानामि पुत्रावेतौ । जगतीमध्ये सीतायां प्रीतिरस्तु मे ॥
- 38देवाः सर्वे परिज्ञाय रामाभिप्रायमुत्सुकाः ।ब्रह्माणमग्रतः कृत्वा समाजग्मुः ॥
- 39प्रजाः समागमन् हृष्टाः सीता ।उदङ्मुखी ह्यधोदृष्टिः प्राञ्जलिर्वाक्यमब्रवीत् ॥
- 40रामादन्यं यथाहं वै न चिन्तये ।तथा मे धरणी देवी विवरं दातुमर्हति ॥
- 41तथा शपन्त्याः सीतायाः प्रादुरासी ।भूतलाद्दिव्यमत्यर्थं सिंहासनमनुत्तमम् ॥
- 42नागेन्द्रैर्ध्रियमाणं च दिव्यदेहै रविप्रभम् । जानकीं दोर्भ्यां गृहीत्वा स्नेहसंयुता ॥
- 43स्वागतं तामुवाचैनामासने संन्यवेशयत् ।सिंहासनस्थां वैदेहीं प्रविशन्तीं ॥
- 44निरन्तरा पुष्पवृष्टिर्दिव्या सीतामवाकिरत् ।साधुवादश्च सुमहान् देवानां परमाद्भुतः ॥
- 45ऊचुश्च बहुधा वाचो ह्यन्तरिक्षगताः सुराः ।अन्तरिक्षे च भूमौ च सर्वे ॥
- 46वानराश्च महाकायाः सीताशपथकारणात् ।केचिच्चिन्तापरास्तस्य केचिद्ध्यानपरायणाः ॥
- 47केचिद्रामं केचित्सीतामचेतसः ।मुहूर्तमात्रं तत्सर्वं ॥
- 48सीताप्रवेशनं दृष्ट्वा सर्वं जगत् ।रामस्तु सर्वं ज्ञात्वैव भविष्य ॥
- 49अजानन्निव शुशोच जनकात्मजाम् ।ब्रह्मणा ऋषिभिः सार्धं बोधितो ॥
- 50प्रतिबुद्ध इव स्वप्नाच्चकारानन्तराः क्रियाः ।विससर्ज ऋषीन् सर्वानृत्विजो ये समागताः ॥
- 51तान् सर्वान् धनरत्नाद्यैस्तोषयामास भूरिशः ।उपादाय कुमारौ तावयोध्यामगम ॥
- 52तदादि निःस्पृहो रामः सर्वभोगेषु सर्वदा ।आत्मचिन्तापरो नित्यमेकान्ते समुपस्थितः ॥
- 53एकान्ते ध्याननिरते एकदा राघवे सति ।ज्ञात्वा नारायणं साक्षात्कौसल्या ॥
- 54भक्त्यागत्य प्रसन्नं तं प्राह हृष्टधीः ।राम त्वं जगतामादिरादिमध्यान्तवर्जितः ॥
- 55परानन्दः पूर्णः पुरुष ईश्वरः ।जातोऽसि मे मम पुण्यातिरेकतः ॥
- 56अवसाने ममाप्यद्य समयोऽभूद्रघूत्तम ।नाद्याप्यबोधजः कृत्स्नो भवबन्धो निवर्तते ॥
- 57इदानीमपि मे ज्ञानं भवबन्धनिवर्तकम् ।यथा सङ्क्षेपतो भूयात्तथा बोधय मां ॥
- 58निर्वेदवादिनीमेवं मातरं ।दयालुः प्राह धर्मात्मा जराजर्जरितां शुभाम् ॥
- 59मार्गास्त्रयो मया प्रोक्ताः पुरा मोक्षाप्तिसाधकाः ।कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः ॥
- 60भक्तिर्विभिद्यते मातस्त्रिविधा ।स्वभावो यस्य यस्तेन तस्य भक्तिर्विभिद्यते ॥
- 61यस्तु हिंसां समुद्दिश्य दम्भं मात्सर्यमेव वा ।भेददृष्टिश्च संरम्भी भक्तो मे स्मृतः ॥
- 62फलाभिसन्धिर्भोगार्थी धनकामो यशस्तथा ।अर्चादौ भेदबुद्ध्या मां पूजयेत्स तु ॥
- 63परस्मिन्नर्पितं यस्तु कर्मनिर्हरणाय वा ।कर्तव्यमिति वा कुर्याद्भेदबुद्ध्या स ॥
- 64मद्गुणाश्रयणादेव मय्यनन्तगुणालये ।अविच्छिन्ना मनोवृत्तिर्यथा गङ्गाम्बुनोऽम्बुधौ ॥
- 65तदेव भक्तियोगस्य लक्षणं हि । या भक्तिर्मयि जायते ॥
- 66सा मे सालोक्यसामीप्यसार्ष्टिसायुज्यमेव वा ।ददात्यपि न गृह्णन्ति भक्ता मत्सेवनं विना ॥
- 67स एवात्यन्तिको योगो भक्तिमार्गस्य भामिनि ।मद्भावं प्राप्नुयात्तेन अतिक्रम्य गुणत्रयम् ॥
- 68महता कामहीनेन स्वधर्माचरणेन च । शस्तेन वर्जितेन विहिंसनात् ॥
- 69स्तुतिमहापूजाभिः स्मृतिवन्दनैः ।भूतेषु मद्भावनया सङ्गेनासत्यवर्जनैः ॥
- 70बहुमानेन महतां दुःखिनामनुकम्पया ।स्वसमानेषु मैत्र्या च यमादीनां निषेवया ॥
- 71वेदान्तवाक्यश्रवणान्मम नामानुकीर्तनात् ।सत्सङ्गेनार्जवेनैव ह्यहमः परिवर्जनात् ॥
- 72काङ्क्षया मम धर्मस्य परिशुद्धान्तरो जनः ।मद्गुणश्रवणादेव याति मामञ्जसा जनः ॥
- 73यथा वायुवशाद्गन्धः स्वाश्रयाद्घ्राणमाविशेत् ।योगाभ्यासरतं चित्तमेवमात्मानमाविशेत् ॥
- 74सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः ।तमज्ञात्वा विमूढात्मा कुरुते केवलं बहिः ॥
- 75क्रियोत्पन्नैर्नैकभेदैर्द्रव्यैर्मे नाम्ब तोषणम् ।र्चायामर्चितोऽहं न पूजितः ॥
- 76तावन्मामर्चयेद्देवं स्वकर्मभिः ।यावत्सर्वेषु भूतेषु स्थितं चात्मनि न स्मरेत् ॥
- 77यस्तु भेदं प्रकुरुते स्वात्मनश्च परस्य च ।भिन्नदृष्टेर्भयं मृत्युस्तस्य कुर्यान्न संशयः ॥
- 78मामतः सर्वभूतेषु परिच्छिन्नेषु संस्थितम् ।एकं ज्ञानेन मानेन मैत्र्या चार्चेदभिन्नधीः ॥
- 79चेतसैवानिशं सर्वभूतानि प्रणमेत्सुधीः ।ज्ञात्वा मां चेतनं शुद्धं संस्थितम् ॥
- 80तस्मात्कदाचिन्नेक्षेत भेदमीश्वरजीवयोः ।भक्तियोगो ज्ञानयोगो मया मातरुदीरितः ॥
- 81आलम्ब्यैकतरं वापि पुरुषः शुभमृच्छति ।ततो मां भक्तियोगेन मातः स्थितम् ॥
- 82वा नित्यं स्मृत्वा शान्तिमवाप्स्यसि ।श्रुत्वा रामस्य वचनं कौसल्याऽऽनन्दसंयुता ॥
- 83रामं सदा हृदि ध्यात्वा छित्त्वा ।अतिक्रम्य गतीस्तिस्रोऽप्यवाप परमां गतिम् ॥
- 84कैकेयी चापि योगं रघुपतिगदितं पूर्वमेवाधिगम्यश्रद्धाभक्तिप्रशान्ता हृदि रघुतिलकं भावयन्ती गतासुः ।गत्वा स्वर्गं स्फुरन्ती दशरथसहिता मोदमानावतस्थेमाता श्रीलक्ष्मणस्याप्यतिविमलमतिः प्राप भर्तुः समीपम् ॥