Leave

Adhyātma Rāmāyaṇa · The Message of Time and the Departure of Lakṣmaṇa

Tap a verse for its meaning

  1. 1
    श्रीमहादेव उवाच ।अथ काले गते कस्मिन् भरतो ।युधाजिता ह्याहूतोऽगात्ससैनिकः ॥
  2. 2
    रामाज्ञया गतस्तत्र हत्वा ।तिस्रः कोटीः पुरे द्वे तु निवेश्य ॥
  3. 3
    पुष्करं पुष्करावत्यां तक्षं तक्षशिलाह्वये । तत्र धनधान्यसुहृद्वृतौ ॥
  4. 4
    पुनरागत्य भरतो रामसेवापरोऽभवत् ।ततः प्रीतो रघुश्रेष्ठो लक्ष्मणं प्राह सादरम् ॥
  5. 5
    उभौ कुमारौ गृहीत्वा पश्चिमां दिशम् ।तत्र विनिर्जित्य दुष्टान् सर्वापकारिणः ॥
  6. 6
    अङ्गदश्चित्रकेतुश्च ।द्वयोर्द्वे कृत्वा गजाश्वधनरत्नकैः ॥
  7. 7
    अभिषिच्य सुतौ तत्र शीघ्रमागच्छ मां पुनः ।रामस्याज्ञां पुरस्कृत्य ॥
  8. 8
    गत्वा हत्वा रिपून् सर्वान् स्थापयित्वा । पुनरागत्य रामसेवापरोऽभवत् ॥
  9. 9
    ततस्तु काले महति प्रयातेरामं सदा स्थितं हरिम् ।द्रष्टुं समागादृषिवेषधारीकालस्ततो लक्ष्मणमित्युवाच ॥
  10. 10
    निवेदयस्वातिबलस्य दूतंमां द्रष्टुकामं य ।रामाय विज्ञापनमस्ति तस्यमहर्षिमुख्यस्य चिराय ॥
  11. 11
    तस्य तद्वचनं श्रुत्वा सौमित्रि ।आचचक्षेऽथ रामाय स सम्प्राप्तं ॥
  12. 12
    एवं ब्रुवन्तं प्रोवाच लक्ष्मणं राघवो वचः ।शीघ्रं प्रवेश्यतां तात मुनिः ॥
  13. 13
    लक्ष्मणस्तु तथेत्युक्त्वा प्रावेशयत ।स्वतेजसा ज्वलन्तं तं घृतसिक्तं यथानलम् ॥
  14. 14
    सोऽभिगम्य रघुश्रेष्ठं दीप्यमानः स्वतेजसा ।मुनि त्याह राघवम् ॥
  15. 15
    तस्मै स मुनये रामः पूजां कृत्वा यथाविधि ।पृष्ट्वानामयमव्यग्रो रामः पृष्टोऽथ तेन सः ॥
  16. 16
    समासीनो रामः प्रोवाच तापसम् ।यदर्थमागतोऽसि त्वमिह त मे ॥
  17. 17
    वाक्येन चोदितस्तेन रामेणाह मुनिर्वचः ।द्वन्द्वमेव प्रयोक्तव्यमनालक्ष्यं तु तद्वचः ॥
  18. 18
    नान्येन चैतच्छ्रोतव्यं नाख्यातव्यं च कस्यचित् ।शृणुयाद्वा निरीक्षेद्वा यः स वध्यस्त्वया प्रभो ॥
  19. 19
    तथेति च रामो लक्ष्मणमब्रवीत् ।तिष्ठ त्वं सौमित्रे नायात्वत्र जनो रहः ॥
  20. 20
    यद्यागच्छति को वापि स न संशयः ।ततः प्राह मुनिं रामो येन वा त्वं ॥
  21. 21
    यत्ते मनीषितं वाक्यं तद्वदस्व ममाग्रतः ।ततः प्राह मुनिर्वाक्यं शृणु राम ॥
  22. 22
    ब्रह्मणा प्रेषितोऽस्मीश तेऽन्तिकं प्रभो ।अहं हि पूर्वजो देव तव पुत्रः परन्तप ॥
  23. 23
    मायासङ्गमजो वीर कालः स्मृतः ।ब्रह्मा त्वामाह भगवान् सर्वदेवर्षिपूजितः ॥
  24. 24
    रक्षितुं स्वर्गलोकस्य समयस्ते महामते ।पुरा त्वमेक एवासीर्लोकान् मायया ॥
  25. 25
    भार्यया सहितस्त्वं मामादौ पुत्रमजीजनः ।तथा भोगवतं नागमनन्तमुदकेशयम् ॥
  26. 26
    मायया जनयित्वा त्वं द्वौ ससत्त्वौ महाबलौ । दैत्यौ हत्वा ॥
  27. 27
    इमां पर्वतसम्बद्धां मेदिनीं ।पद्मे दिव्यार्कसङ्काशे नाभ्यामुत्पाद्य मामपि ॥
  28. 28
    मां विधाय प्रजाध्यक्षं मयि सर्वं न्यवेदयत् ।सोऽहं संयुक्तसम्भारस्त्वामवोचं जगत्पते ॥
  29. 29
    रक्षां विधत्स्व भूतेभ्यो ये मे वीर्यापहारिणः ।ततस्त्वं कश्यपाज्जातो विष्णु ॥
  30. 30
    हृतवानसि वधाद्रक्षोगणस्य च ।सर्वासूत्सार्यमाणासु प्रजासु धरणीधर ॥
  31. 31
    रावणस्य मर्त्यलोकमुपागतः ।दशवर्षसहस्राणि दशवर्षशतानि च ॥
  32. 32
    कृत्वा वासस्य समयं त्रिदशेष्वात्मनः पुरा ।स ते पूर्णः पूर्णे चायुषि ते नृषु ॥
  33. 33
    काल त्वत्समीपमुपागमत् ।ततो भूयश्च ते बुद्धिर्यदि राज्यमुपासितुम् ॥
  34. 34
    तत्तथा भव भद्रं ते एवमाह ।यदि ते गमने बुद्धिर्देवलोकं ॥
  35. 35
    सनाथा विष्णुना देवा भजन्तु । तद्वाक्यं श्रुत्वा कालेन भाषितम् ॥
  36. 36
    हसन् रामस्तदा वाक्यं कृत्स्नस्यान्तकमब्रवीत् ।श्रुतं तव वचो मेऽद्य ममापीष्टतरं तु तत् ॥
  37. 37
    परमो ज्ञेयस्त्वदागमनकारणात् ।त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ॥
  38. 38
    भद्रं तेऽस्त्वागमिष्यामि यत एवाहमागतः ।मनोरथस्तु सम्प्राप्तो न मेऽत्रास्ति विचारणा ॥
  39. 39
    मत्सेवकानां देवानां सर्वकार्येषु वै मया ।स्थातव्यं मायया यथा चाह प्रजापतिः ॥
  40. 40
    एवं तयोः कथयतो मुनिरभ्यगात् ।राजद्वारं राघवस्य दर्शनापेक्षया द्रुतम् ॥
  41. 41
    मुनिर्लक्ष्मणमासाद्य दुर्वासा वाक्यमब्रवीत् ।शीघ्रं दर्शय रामं मे कार्यं मेऽत्यन्तमाहितम् ॥
  42. 42
    तच्छ्रुत्वा प्राह सौमित्रिर्मुनिं ।रामेण कार्यं किं तेऽद्य किं तेऽभीष्टं करोम्यहम् ॥
  43. 43
    राजा कार्यान्तरे व्यग्रो मुहूर्तं सम्प्रतीक्ष्यताम् ।तच्छ्रुत्वा क्रोधसन्तप्तो मुनिः सौमित्रिमब्रवीत् ॥
  44. 44
    अस्मिन् क्षणे तु सौमित्रे न दर्शयसि चेद्विभुम् ।रामं सविषयं वंशं भस्मीकुर्यां न संशयः ॥
  45. 45
    श्रुत्वा तद्वचनं घोरमृषेर्दुर्वाससो भृशम् ।स्वरूपं तस्य वाक्यस्य चिन्तयित्वा स लक्ष्मणः ॥
  46. 46
    सर्वनाशाद्वरं मेऽद्य नाशो ह्येकस्य कारणात् ।वं ततो गत्वा रामाय प्राह लक्ष्मणः ॥
  47. 47
    सौमित्रेर्वचनं श्रुत्वा रामः कालं ।शीघ्रं निर्गम्य रामोऽपि ददर्शात्रेः सुतं मुनिम् ॥
  48. 48
    रामोऽभिवाद्य सम्प्रीतो मुनिं पप्रच्छ सादरम् ।किं कार्यं ते करोमीति मुनिमाह ॥
  49. 49
    तच्छ्रुत्वा रामवचनं दुर्वासा राममब्रवीत् ।अद्य वर्षसहस्राणामुपवाससमापनम् ॥
  50. 50
    अतो भोजनमिच्छामि सिद्धं यत्ते रघूत्तम ।रामो मुनिवचः श्रुत्वा समन्वितः ॥
  51. 51
    स सिद्धमन्नं यथावत्समुपाहरत् ।मुनिर्भुक्त्वान्नममृतं सन्तुष्टः पुनरभ्यगात् ॥
  52. 52
    स्वमाश्रमं गते तस्मिन् रामः सस्मार । शोकदुःखार्तो विमनाश्चातिविह्वलः ॥
  53. 53
    अवाङ्मुखो दीनमना न शशाकाभिभाषितुम् ।मनसा लक्ष्मणं ज्ञात्वा हतप्रायं रघूद्वहः ॥
  54. 54
    अवाङ्मुखो बभूवाथ तूष्णीमेवाखिलेश्वरः ।ततो रामं विलोक्याह सौमित्रिर्दुःखसम्प्लुतम् ॥
  55. 55
    तूष्णीम्भूतं चिन्तयन्तं गर्हन्तं ।मत्कृते त्यज सन्तापं जहि मां ॥
  56. 56
    गतिः कालस्य कलिता पूर्वमेवेदृशी प्रभो ।त्वयि हीनप्रतिज्ञे तु नरको मे ध्रुवं भवेत् ॥
  57. 57
    मयि प्रीतिर्यदि भवेद्यद्यनुग्राह्यता तव ।त्यक्त्वा शङ्कां जहि प्राज्ञ मा मा धर्मं त्यज प्रभो ॥
  58. 58
    सौमित्रिणोक्तं तच्छ्रुत्वा राम ।आहूय मन्त्रिणः सर्वान् वसिष्ठं चेदमब्रवीत् ॥
  59. 59
    मुनेरागमनं यत्तु कालस्यापि हि भाषितम् ।प्रतिज्ञामात्मनश्चैव सर्वमावेदय ॥
  60. 60
    श्रुत्वा रामस्य वचनं मन्त्रिणः सपुरोहिताः ।ऊचुः सर्वे राममक्लिष्टकारिणम् ॥
  61. 61
    पूर्वमेव हि निर्दिष्टं तव ।लक्ष्मणेन वियोगस्ते ज्ञातो ॥
  62. 62
    त्यजाशु लक्ष्मणं राम मा प्रभो ।प्रतिज्ञाते परित्यक्ते धर्मो भवति ॥
  63. 63
    धर्मे नष्टेऽखिले राम त्रैलोक्यं नश्यति ध्रुवम् ।त्वं तु सर्वस्य लोकस्य पालकोऽसि रघूत्तम ॥
  64. 64
    त्यक्त्वा लक्ष्मणमेवैकं त्रैलोक्यं त्रातुमर्हसि ।रामो धर्मार्थसहितं वाक्यं तेषामनिन्दितम् ॥
  65. 65
    समाश्रुत्य प्राह सौमित्रि ।यथेष्टं गच्छ सौमित्रे मा भूद्धर्मस्य संशयः ॥
  66. 66
    परित्यागो वधो वापि सतामेवोभयं समम् ।एवमुक्ते रघुश्रेष्ठे ॥
  67. 67
    रामं प्रणम्य सौमित्रिः शीघ्रं गृहमगात्स्वकम् ।ततोऽगात्सरयूतीरमाचम्य स ॥
  68. 68
    नव द्वाराणि संयम्य मूर्ध्नि प्राणमधारयत् ।यदक्षरं परं ब्रह्म ॥
  69. 69
    पदं त चेतसा सोऽभ्यचिन्तयत् । संयुक्तं सर्वे देवाः सहर्षयः ॥
  70. 70
    साग्नयो लक्ष्मणं पुष्पैस्तुष्टुवुश्च समाकिरन् ।अदृश्यं विबुधैः कैश्चित्सशरीरं च ॥
  71. 71
    गृहीत्वा लक्ष्मणं शक्रः स्वर्गलोकमथागमत् ।ततो विष्णोश्चतुर्भागं तं देवं सुरसत्तमाः ।सर्वे देवर्षयो दृष्ट्वा लक्ष्मणं ॥
  72. 72
    लक्ष्मणे हि दिवमागते सिद्धलोकगतयोगिनस्तदा ।ब्रह्मणा सह समागमन्मुदा द्रष्टुमाहित ॥