Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · Preparations for the Sacrifice
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
पुनः
प्राप्ते
वसन्ते
तु
पूर्णः
संवत्सरोऽभवत्
।
प्रसवार्थं
गतो
यष्टुं
हयमेधेन
वीर्यवान्
॥
2
▾
Meaning
Keep
अभिवाद्य
वसिष्ठं
च
न्यायतः
प्रतिपूज्य
च
।
अब्रवीत्प्रश्रितं
वाक्यं
प्रसवार्थं
द्विजोत्तमम्
॥
3
▾
Meaning
Keep
यज्ञो
मे
प्रीयतां
ब्रह्मन्यथोक्तं
मुनिपुङ्गव
।
यथा
न
विघ्नः
क्रियते
यज्ञाङ्गेषु
विधीयताम्
॥
4
▾
Meaning
Keep
भवान्
स्निग्धः
सुहृन्मह्यं
गुरुश्च
परमो
महान्
।
वोढव्यो
भवता
चैव
भारो
यज्ञस्य
चोद्यतः
॥
5
▾
Meaning
Keep
तथेति
च
स
राजानमब्रवीद्द्विजसत्तमः
।
करिष्ये
सर्वमेवैतद्भवता
यत्समर्थितम्
॥
6
▾
Meaning
Keep
ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसु
निष्ठितान्
।
स्थापत्ये
निष्ठितांश्चैव
वृद्धान्परमधार्मिकान्
॥
7
▾
Meaning
Keep
कर्मान्तिकान्
शिल्पकरान्वर्धकीन्खनकानपि
।
गणकान्
शिल्पिनश्चैव
तथैव
नटनर्तकान्
॥
8
▾
Meaning
Keep
तथा
शुचीन्
शास्त्रविदः
पुरुषान्सुबहुश्रुतान्
।
यज्ञकर्म
समीहन्तां
भवन्तो
राजशासनात्
॥
9
▾
Meaning
Keep
इष्टका
बहुसाहस्रा
शीघ्रमानीयतामिति
।
औपकार्याः
क्रियन्तां
च
राज्ञां
बहुगुणान्विताः
॥
10
▾
Meaning
Keep
ब्राह्मणावसथाश्चैव
कर्तव्याः
शतशः
शुभाः
।
भक्ष्यान्नपानैर्बहुभिः
समुपेताः
सुनिष्ठिताः
॥
11
▾
Meaning
Keep
तथा
पौरजनस्यापि
कर्तव्या
बहुविस्तराः
।
आगतानां
सुदूराच्च
पार्थिवानां
पृथक्
पृथक्
।
वाजिवारणशालाश्च
तथा
शय्यागृहाणि
च
।
भटानां
महदावासा
वैदेशिकनिवासिनाम्
।
आवासा
बहुभक्ष्या
वै
सर्वकामैरुपस्थिताः
॥
12
▾
Meaning
Keep
तथा
जानपदस्यापि
जनस्य
बहुशोभनम्
।
दातव्यमन्नं
विधिवत्सत्कृत्य
न
तु
लीलया
॥
13
▾
Meaning
Keep
सर्वे
वर्णा
यथा
पूजां
प्राप्नुवन्ति
सुसत्कृताः
।
न
चावज्ञा
प्रयोक्तव्या
कामक्रोधवशादपि
॥
14
▾
Meaning
Keep
यज्ञकर्मसु
ये
व्यग्राः
पुरुषाः
शिल्पिनस्तथा
।
तेषामपि
विशेषेण
पूजा
कार्या
यथाक्रमम्
॥
15
▾
Meaning
Keep
ते
च
स्युः
सम्भृताः
सर्वे
वसुभिर्भोजनेन
च
।
यथा
सर्वं
सुविहितं
न
किञ्चित्परिहीयते
॥
16
▾
Meaning
Keep
तथा
भवन्तः
कुर्वन्तु
प्रीतिस्निग्धेन
चेतसा
।
ततः
सर्वे
समागम्य
वसिष्ठमिदमब्रुवन्
॥
17
▾
Meaning
Keep
यथोक्तं
तत्सुविहितं
न
किञ्चित्परिहीयते
।
ततः
सुमन्त्रमाहूय
वसिष्ठो
वाक्यमब्रवीत्
॥
18
▾
Meaning
Keep
निमन्त्रयस्व
नृपतीन्पृथिव्यां
ये
च
धार्मिकाः
।
ब्राह्मणान्
क्षत्रियान्
वैश्यान्
शूद्रांश्चैव
सहस्रशः
॥
19
▾
Meaning
Keep
समानयस्व
सत्कृत्य
सर्वदेशेषु
मानवान्
।
मिथिलाधिपतिं
शूरं
जनकं
सत्यविक्रमम्
॥
20
▾
Meaning
Keep
निष्ठितं
सर्वशास्त्रेषु
तथा
वेदेषु
निष्ठितम्
।
तमानय
महाभागं
स्वयमेव
सुसत्कृतम्
॥
21
▾
Meaning
Keep
पूर्व
सम्बन्धिनं
ज्ञात्वा
ततः
पूर्वं
ब्रवीमि
ते
।
तथा
काशीपतिं
स्निग्धं
सततं
प्रियवादिनम्
॥
22
▾
Meaning
Keep
सद्वृत्तं
देवसङ्काशं
स्वयमेवानयस्व
ह
।
तथा
केकयराजानं
वृद्धं
परमधार्मिकम्
॥
23
▾
Meaning
Keep
श्वशुरं
राजसिंहस्य
सपुत्रं
त्वमिहानय
।
अङ्गेश्वरं
महाभागं
रोमपादं
सुसत्कृतम्
॥
24
▾
Meaning
Keep
वयस्यं
राजसिंहस्य
समानय
यशस्विनम्
।
प्राचीनान्सिन्धुसौवीरान्सौराष्ट्रेयांश्च
पार्थिवान्
॥
25
▾
Meaning
Keep
दाक्षिणात्यान्नरेन्द्राश्च
समस्तानानयस्व
ह
।
सन्ति
स्निग्धाश्च
ये
चान्ये
राजानः
पृथिवीतले
॥
26
▾
Meaning
Keep
तानानय
ततः
क्षिप्रं
सानुगान्सहबान्धवान्
।
एतान्
दूतैः
महाभागैः
आनयस्व
नृपाज्ञ्या
।
वसिष्ठवाक्यं
तच्छ्रुत्वा
सुमन्त्रस्त्वरितस्तदा
॥
27
▾
Meaning
Keep
व्यादिशत्पुरुषांस्तत्र
राज्ञामानयने
शुभान्
।
स्वयमेव
हि
धर्मात्मा
प्रययौ
मुनिशासनात्
॥
28
▾
Meaning
Keep
सुमन्त्रस्त्वरितो
भूत्वा
समानेतुं
महीक्षितः
।
ते
च
कर्मान्तिकाः
सर्वे
वसिष्ठाय
च
धीमते
॥
29
▾
Meaning
Keep
सर्वं
निवेदयन्ति
स्म
यज्ञे
यदुपकल्पितम्
।
ततः
प्रीतो
द्विजश्रेष्ठस्तान्सर्वानिदमब्रवीत्
॥
30
▾
Meaning
Keep
अवज्ञया
न
दातव्यं
कस्यचिल्लीलयापि
वा
।
अवज्ञया
कृतं
हन्याद्दातारं
नात्र
संशयः
॥
31
▾
Meaning
Keep
ततः
कैश्चिदहोरात्रैरुपयाता
महीक्षितः
।
बहूनि
रत्नान्यादाय
राज्ञो
दशरथस्य
ह
॥
32
▾
Meaning
Keep
ततो
वसिष्ठः
सुप्रीतो
राजानमिदमब्रवीत्
।
उपयाता
नरव्याघ्र
राजानस्तव
शासनात्
॥
33
▾
Meaning
Keep
मया
च
सत्कृताः
सर्वे
यथार्हं
राजसत्तमाः
।
यज्ञियं
च
कृतं
राजन्पुरुषैः
सुसमाहितैः
॥
34
▾
Meaning
Keep
निर्यातु
च
भवान्यष्टुं
यज्ञायतनमन्तिकात्
।
सर्वकामैरुपहृतैरुपेतं
वै
समन्ततः
॥
35
▾
Meaning
Keep
द्रष्टुमर्हसि
राजेन्द्र
मनसेव
विनिर्मितम्
।
तथा
वसिष्ठवचनादृष्यशृङ्गस्य
चोभयोः
॥
36
▾
Meaning
Keep
शुभे
दिवसनक्षत्रे
निर्यातो
जगतीपतिः
।
ततो
वसिष्ठप्रमुखाः
सर्व
एव
द्विजोत्तमाः
॥
37
▾
Meaning
Keep
ऋश्यशृङ्गं
पुरस्कृत्य
यज्ञकर्मारभंस्तदा
।
यज्ञवाटगताः
सर्वे
यथाशास्त्रं
यथाविधि
।
श्रीमांश्च
सहपत्नीभी
राजा
दीक्षामुपाविशत्
॥
Previous
←
The King's Resolve
Next
The Horse Sacrifice by the Sarayū
→