Vālmīki Rāmāyaṇa · The Sons of King Sagara
Tap a verse for its meaning
- 1तां कथां कौशिको रामे निवेद्य ।पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥
- 2अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।सगरो नाम प्रजाकामः स चाप्रजाः ॥
- 3वैदर्भदुहिता राम केशिनी नाम नामतः ।ज्येष्ठा सगरपत्नी सा धर्मिष्ठा ॥
- 4अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।द्वितीया सगरस्यासीत्पत्नी ॥
- 5ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः ।हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥
- 6अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः ।सगराय वरं प्रादाद्भृगुः ॥
- 7अपत्यलाभः सुमहान्भविष्यति तवानघ ।कीर्तिं चाप्रतिमां लोके प्राप्स्यसे ॥
- 8एका जनयिता तात पुत्रं वंशकरं तव ।षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥
- 9भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥
- 10एकः कस्याः सुतो बहून्जनयिष्यति ।श्रोतुमिच्छावहे ब्रह्मन्सत्यमस्तु वचस्तव ॥
- 11तयोस्तद्वचनं श्रुत्वा भृगुः ।उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥
- 12एको वंशकरो वाऽस्तु बहवो वा महाबलाः ।कीर्तिमन्तो का वा कं वरमिच्छति ॥
- 13मुनेस्तु वचनं श्रुत्वा केशिनी ।पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ॥
- 14षष्टिं पुत्रसहस्राणि तदा ।महोत्साहान्कीर्तिमतो जग्राह सुमतिः सुतान् ॥
- 15प्रदक्षिणमृषिं कृत्वा च ।जगाम स्वपुरं राजा सभार्यो ॥
- 16अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥
- 17सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।षष्टिः पुत्राः सहस्राणि तुम्बभेदाद्विनिस्सृताः ॥
- 18धात्र्यस्तान्समवर्धयन् ।कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥
- 19अथ दीर्घेण कालेन ।षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥
- 20स च ज्येष्ठो नरश्रेष्ठः सगरस्यात्मसम्भवः ।बालान्गृहीत्वा तु जले सरय्वा रघुनन्दन ॥
- 21प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान्निरीक्ष्य वै ।एवं सज्जनप्रतिबाधकः ॥
- 22पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ।तस्य पुत्रोंशुमान्नाम असमञ्जस्य वीर्यवान् ॥
- 23सम्मतः सर्वलोकस्य सर्वस्यापि प्रियं वदः ।ततः कालेन महता मतिः समभिजायत ।सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ॥
- 24स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा ।यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥