Vālmīki Rāmāyaṇa · The Power of the Staff
Tap a verse for its meaning
- 1एवमुक्तो वसिष्ठेन विश्वामित्रो ।आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥
- 2ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् ।वसिष्ठो भगवान्क्रोधादिदं वचनमब्रवीत् ॥
- 3स्थितोऽस्म्येष यद्बलं तद्विदर्शय ।नाशयाम्यद्य ते दर्पं शस्त्रस्य तव ॥
- 4क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥
- 5तस्यास्त्रं घोरमाग्नेयमुद्यतम् । तच्छान्तमग्नेर्वेग इवाम्भसा ॥
- 6वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।ऐषीकं चापि चिक्षेप कुपितो ॥
- 7मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ।जृम्भणं मादनं चैव सन्तापनविलापने ॥
- 8शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥
- 9पैनाकास्त्रं च दयितं शुष्कार्द्रे उभे ।दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥
- 10धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥
- 11शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥
- 12त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।एतान्यस्त्राणि चिक्षेप सर्वाणि ॥
- 13वसिष्ठे तदद्भुतमिवाभवत् ।तानि सर्वाणि दण्डेन ग्रसते ॥
- 14तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान्गाधिनन्दनः ।तदस्त्रमुद्यतं दृष्ट्वा देवाः ॥
- 15देवर्षयश्च गन्धर्वाः समहोरगाः ।त्रैलोक्यमासीत्सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥
- 16तदप्यस्त्रं महाघोरं ब्राह्मं ।वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन ॥
- 17ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य ।त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम् ॥
- 18सर्वेषु वसिष्ठस्य महात्मनः ।मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥
- 19प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।विधूम इव कालाग्निर्यमदण्ड इवापरः ॥
- 20ततोऽस्तुवन्मुनिगणा वसिष्ठं जपतां वरम् ।अमेयं ते बलं ब्रह्मं तेजसा ॥
- 21ब्रह्मन्विश्वामित्रो महातपाः ।प्रसीद जपतां श्रेष्ठ लोकाः सन्तु ॥
- 22एवमुक्तो महातेजाः महातपाः ।विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥
- 23धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ।एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥
- 24तदेतत्समवेक्ष्याहं ।तपो महत्समास्थास्ये यद्वै ॥