Vālmīki Rāmāyaṇa · The Attainment of Brāhmaṇahood
Tap a verse for its meaning
- 1अथ हैमवतीं राम दिशं त्यक्त्वा ।पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥
- 2मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।चकाराप्रतिमं राम तपः परमदुष्करम् ॥
- 3पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् ।विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥
- 4स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ।तस्य वर्षसहस्रस्य व्रते पूर्णे ॥
- 5भोक्तुमारब्धवानन्नं तस्मिन्काले रघूत्तम ।इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥
- 6तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय ।निःशेषितेऽन्ने भगवानभुक्त्वैव ॥
- 7न किञ्चिदवदद्विप्रं मौनव्रतमुपास्थितः ।अथ वर्षसहस्रं वै नोच्छ्वस ॥
- 8तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ॥
- 9ततो देवाः सगन्धर्वाः पन्नगोरगराक्षसाः ।मोहिता तस्य तपसा ॥
- 10कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ।बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ॥
- 11लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ।न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ॥
- 12न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।विनाशयति त्रैलोक्यं तपसा ॥
- 13व्याकुलाश्च दिशः सर्वा न च किञ्चित्प्रकाशते । क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥
- 14भास्करो निष्प्रभश्चैव महर्षेस्तस्य ।प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ॥
- 15ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः ।संमूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् ॥
- 16बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।तावत्प्रसाद्यो भगवानग्निरूपो ॥
- 17यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् ।देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् ॥
- 18ततः सर्वे पितामहपुरोगमाः ।विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ॥
- 19स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥
- 20दीर्घमायुश्च ते ब्रह्मन्ददामि ।स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ॥
- 21पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम् ।कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥
- 22ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥
- 23क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ॥
- 24यद्ययं कृतो यान्तु सुरर्षभाः ।ततः प्रसादितो देवैर्वसिष्ठो ॥
- 25सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।ब्रह्मर्षिस्त्वं न सन्देहः सर्वं सम्पत्स्यते तव ॥
- 26इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ।विश्वामित्रोऽपि लब्ध्वा ब्राह्मण्यमुत्तमम् ॥
- 27पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् ।कृतकामो महीं सर्वां चचार तपसि स्थितः ॥
- 28एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।एष राम मुनिश्रेष्ठ एष ॥
- 29एष धर्मपरो नित्यं वीर्यस्यैष ।एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥
- 30शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।जनकः प्राञ्जलिर्वाक्यमुवाच ॥
- 31धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ।यज्ञं प्राप्तवानसि कौशिक ॥
- 32पावितोऽहं त्वया ब्रह्मन्दर्शनेन महामुने ।विश्वामित्र महाभाग ब्रह्मर्षीणां वरोत्तम ॥
- 33गुणा प्राप्तास्तव सन्दर्शनान्मया ।विस्तरेण च ते ब्रह्मन्कीर्त्यमानं ॥
- 34श्रुतं मया महातेजो रामेण च महात्मना । प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥
- 35अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।अप्रमेया गुणाश्चैव नित्यं ते ॥
- 36तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो ।कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥
- 37श्वः महातेजो द्रष्टुमर्हसि मां पुनः ।स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥
- 38एवमुक्तो प्रशस्य ।विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥
- 39एवमुक्त्वा मुनिश्रेष्ठं वैदेहो ।प्रदक्षिणं चकाराथ सोपाध्यायः सबान्धवः ॥
- 40विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः ।स्ववाटमभिचक्राम पूज्यमानो ॥