Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Highway to the Palace
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
स
रामो
रथमास्थाय
सम्प्रहृष्टसुहृज्जनः
।
पताकाध्वजसम्पन्नं
महार्हागरुधूपितम्
॥
2
▾
Meaning
Keep
अपश्यन्नगरं
श्रीमान्नानाजनसमाकुलम्
।
स
गृहैरभ्रसङ्काशैः
पाण्डुरैरुपशोभितम्
॥
3
▾
Meaning
Keep
राजमार्गं
ययौ
रामः
मध्येनागरुधूपितम्
।
चन्दनानां
च
मुख्यानामगरूणां
च
सञ्चयैः
॥
4
▾
Meaning
Keep
उत्तमानां
च
गन्धानां
क्षौमकौशाम्बरस्य
च
।
अविद्धाभिश्च
मुक्ताभिरुत्तमैः
स्फाटिकैरपि
॥
5
▾
Meaning
Keep
शोभमानमसम्बाधैस्तं राजपथमुत्तमम् ।
संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि ॥
6
▾
Meaning
Keep
ददर्श
तं
राजपथं
दिवि
देवपथं
यथा
।
दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः
॥
7
▾
Meaning
Keep
नानामाल्योपगन्धैश्च
सदाऽभ्यर्चितचत्वरम्
।
आशीर्वादान्बहून्
शृण्वन्सुहृद्भिः
समुदीरितान्
॥
8
▾
Meaning
Keep
यथाऽर्हं
चापि
सम्पूज्य
सर्वानेव
नरान्ययौ
।
पितामहैराचरितं
तथैव
प्रपितामहैः
॥
9
▾
Meaning
Keep
अद्योपादाय
तं
मार्गमभिषिक्तोऽनुपालय
।
यथा
स्म
लालिताः
पित्रा
यथा
पूर्वैः
पितामहैः
॥
10
▾
Meaning
Keep
ततः
सुखतरं
रामे
वत्स्यामः
सति
राजनि
।
अलमद्य
हि
भुक्तेन
परमार्थैरलं
च
नः
॥
11
▾
Meaning
Keep
यथा
पश्याम
निर्यान्तं
रामं
राज्ये
प्रतिष्ठितम्
।
ततो
हि
नः
प्रियतरं
नान्यत्किञ्चिद्भविष्यति
॥
12
▾
Meaning
Keep
यथाभिषेको
रामस्य
राज्येनामिततेजसः
।
एताश्चान्याश्च
सुहृदामुदासीनः
कथाः
शुभाः
॥
13
▾
Meaning
Keep
आत्मसम्पूजनीः
शृण्वन्ययौ
रामो
महापथम्
।
न
हि
तस्मान्मनः
कश्चिच्चक्षुषी
वा
नरोत्तमात्
॥
14
▾
Meaning
Keep
नरः
शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि
राघवे
।
यश्च
रामं
न
पश्येत्तु
यं
च
रामो
न
पश्यति
॥
15
▾
Meaning
Keep
निन्दितः
स
वसेल्लोके
स्वात्माऽप्येनं
विगर्हते
।
सर्वेषां
हि
स
धर्मात्मा
वर्णानां
कुरुते
दयाम्
॥
16
▾
Meaning
Keep
चतुर्णां हि वयस्थानां तेन ते तमनुव्रताः ।
चतुष्पथान्देवपथांश्चैत्यान्यायतनानि च ॥
17
▾
Meaning
Keep
प्रदक्षिणं
परिहरन्जगाम
नृपतेः
सुतः
।
स
राजकुलमासाद्य
मेघसङ्घोपमैः
शुभैः
॥
18
▾
Meaning
Keep
प्रासादशृङ्गैर्विविधैः
कैलासशिखरोपमैः
।
आवारयद्भिर्गगनं
विमानैरिव
पाण्डरैः
॥
19
▾
Meaning
Keep
वर्धमानगृहैश्चापि
रत्नजालपरिष्कृतैः
।
तत्पृथिव्यां
गृहवरं
महेन्द्रभवनोपमम्
॥
20
▾
Meaning
Keep
राजपुत्रः
पितुर्वेश्म
प्रविवेश
श्रिया
ज्वलन्
।
स
कक्ष्या
धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य
वाजिभिः
॥
21
▾
Meaning
Keep
पदातिरपरे
कक्ष्ये
द्वे
जगाम
नरोत्तमः
।
स
सर्वाः
समतिक्रम्य
कक्ष्या
दशरथात्मजः
।
सन्निवर्त्य
जनं
सर्वं
शुद्धान्तं
पुनरभ्यगात्
॥
22
▾
Meaning
Keep
ततः
प्रविष्टे
पितुरन्तिकं
तदा
जनः
स
सर्वो
मुदितो
नृपात्मजे
।
प्रतीक्षते
तस्य
पुनर्विनिर्गमं
यथोदयं
चन्द्रमसः
सरित्पतिः
॥
Previous
←
Sumantra Summons Rāma
Next
Kaikeyī's Demand
→