Leave

Vālmīki Rāmāyaṇa · Sītā's Resolve and Rāma's Consent

Tap a verse for its meaning

  1. 1
    तु रामेण मैथिली ।वनवासनिमित्ताय भर्तारमिदमब्रवीत् ॥
  2. 2
    सा तमुत्तमसंविग्ना सीता विपुलवक्षसम् ।प्रणयाच्चाभिमानाच्च राघवम् ॥
  3. 3
    किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः ।राम जामातरं प्राप्य स्त्रियं ॥
  4. 4
    अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति ।तेजो नास्ति परं रामे तपतीव दिवाकरे ॥
  5. 5
    किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥
  6. 6
    द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् ।सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥
  7. 7
    न त्वहं मनसाऽप्यन्यं द्रष्टास्मि त्वदृतेऽनघ ।त्वया राघव गच्छेयं यथान्या ॥
  8. 8
    स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् ।शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥
  9. 9
    यस्य पथ्यं च रामात्थ यस्य चार्थेऽ ।त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ ॥
  10. 10
    स मामनादाय वनं न त्वं प्रस्थातुमर्हसि ।तपो वा यदि वाऽरण्यं स्वर्गो वा स्यात्त्वया सह ॥
  11. 11
    न च मे भविता तत्र कश्चित्पथि ।पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥
  12. 12
    ये च कण्टकिनो द्रुमाः । मार्गे मम सह त्वया ॥
  13. 13
    महावातसमुद्धूतं यन्मामवकरिष्यति ।रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम् ॥
  14. 14
    यदा शिश्ये वनान्ते ।कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः ॥
  15. 15
    पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु ।दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥
  16. 16
    न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः ।आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥
  17. 17
    न च तत्र गतः किञ्चिद्द्रष्टुमर्हसि ।मत्कृते न च ते शोको न भविष्यति ॥
  18. 18
    यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ।इति जानन्परां प्रीतिं गच्छ राम मया सह ॥
  19. 19
    अथ मामेवमव्यग्रां वनं नैव नयिष्यसि ।विषमद्यैव पास्यामि मा विशं द्विषतां वशम् ॥
  20. 20
    पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ।उज्झितायास्त्वया तदैव मरणं वरम् ॥
  21. 21
    इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे ।किं पुनर्दश वर्षाणि त्रीणि चैकं च ॥
  22. 22
    इति सा विलप्य करुणं बहु ।चुक्रोश पतिमायस्ता भृशमालिङ्ग्य ॥
  23. 23
    सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना ।चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥
  24. 24
    तस्याः स्फटिकसङ्काशं वारि ।नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥
  25. 25
    तच्चैवामलचन्द्राभं मुखमायतलोचनम् । बाष्पेण जलोद्धृतमिवाम्बुजम् ॥
  26. 26
    तां बाहुभ्यां विसञ्ज्ञामिव दुःखिताम् ।उवाच वचनं रामः परिविश्वासयंस्तदा ॥
  27. 27
    न देवि तव दुःखेन स्वर्गमप्यभिरोचये ।न हि मेऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः ॥
  28. 28
    तव सर्वमभिप्रायमविज्ञाय ।वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥
  29. 29
    यत्सृष्टाऽसि मया सार्धं वनवासाय ।न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥
  30. 30
    धर्मस्तु गजनासोरु सद्भिराचरितः पुरा ।तं चाहमनुवर्तेऽद्य यथा सूर्यं ॥
  31. 31
    न खल्वहं न गच्छेयं वनं जनकनन्दिनि ।वचनं तन्नयति मां पितुः ॥
  32. 32
    एष धर्मस्तु सुश्रोणि पितुर्मातुश्च ।आज्ञां चाहं नाहं जीवितुमुत्सहे ॥
  33. 33
    स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ।अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ॥
  34. 34
    यत्त्रयं तत्त्रयो लोकाः पवित्रं तत्समं भुवि ।नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥
  35. 35
    न सत्यं वा न यज्ञाश्चाप्तदक्षिणाः ।तथा सीते यथा सेवा पितुर्हिता ॥
  36. 36
    स्वर्गो धनं वा धान्यं वा विद्याः पुत्राः सुखानि च । न किञ्चिदपि ॥
  37. 37
    देवगन्धर्वगोलोकान्ब्रह्मलोकांस्तथा नराः ।प्राप्नुवन्ति महात्मानो ॥
  38. 38
    स मां पिता यथा शास्ति स्थितः ।तथा वर्तितुमिच्छामि स हि धर्मः ॥
  39. 39
    मम मतिः सीते त्वां नेतुं दण्डकावनम् ।वसिष्यामीति सा त्वं मामनुयातुं ॥
  40. 40
    सा हि सृष्टाऽनवद्याङ्गी वनाय मदिरे क्षणे ।अनुगच्छस्व मां भीरु भव ॥
  41. 41
    सर्वथा सदृशं सीते मम स्वस्य कुलस्य च ।व्यवसायमतिक्रान्ता सीते त्वमतिशोभनम् ॥
  42. 42
    आरभस्व क्रियाः ।नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते ॥
  43. 43
    ब्राह्मणेभ्यश्च भिक्षुकेभ्यश्च भोजनम् ।देहि चाशंसमानेभ्यः सन्त्वरस्व च मा चिरम् ॥
  44. 44
    भूषणानि वरवस्त्राणि यानि च ।रमणीयाश्च ये केचित्क्रीडार्थाश्चाप्युपस्कराः ॥
  45. 45
    यानानि मम चान्यानि यानि च ।देहि स्व ब्राह्मणानामनन्तरम् ॥
  46. 46
    अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ।क्षिप्रं देवी दातुमेवोपचक्रमे ॥
  47. 47
    ततः प्रहृष्टा यशस्विनी भर्तुरवेक्ष्य भाषितम् ।धनानि रत्नानि च दातुमङ्गनाप्रचक्रमे धर्मभृतां मनस्विनी ॥