Vālmīki Rāmāyaṇa · The Distribution of Wealth
Tap a verse for its meaning
- 1ततः शासनमाज्ञाय शुभतरं प्रियम् ।गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥
- 2तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् ।सखेऽभ्यागच्छ पश्य त्वं वेश्म ॥
- 3ततः सन्ध्यामुपास्याशु गत्वा सह ।जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं ॥
- 4तमागतं वेदविदं सीतया सह ।सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥
- 5जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः ।सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥
- 6अन्यैश्च रत्नैर्बहुभिः प्रत्यपूजयत् ।सुयज्ञं स तदोवाच रामः ॥
- 7हारं च हेमसूत्रं च भार्यायै सौम्य ।रशनां चाधुना सीता दातुमिच्छति ते सखे ॥
- 8अङ्गदानि विचित्राणि शुभानि च ।प्रयच्छति सखे तुभ्यं भार्यायै गच्छती ॥
- 9पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् ।तमपीच्छति प्रतिष्ठापयितुं त्वयि ॥
- 10नागः नाम मातुलोऽयं ददौ मम ।तं ते गजसहस्रेण ददामि ॥
- 11इत्युक्तः स हि रामेण सुयज्ञः तत् ।रामलक्ष्मणसीतानां प्रयुयोजाऽशिषः शुभाः ॥
- 12अथ भ्रातरमव्यग्रं प्रियं रामः ।सौमित्रिं तमुवाचेदं ब्रह्मेव ॥
- 13अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥
- 14तर्पयस्व गोसहस्रैश्च मानद ।सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥
- 15कौसल्यां च सुमित्रां च भक्तः पर्युपतिष्ठति ।आचार्यस्तैत्तिरीयाणामभिरूपश्च ॥
- 16तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय । च वस्त्राणि यावत्तुष्यति स द्विजः ॥
- 17सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः ।तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥
- 18पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ।ये चेमे कठकालापा बहवो ॥
- 19नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किञ्चन ।अलसाः स्वादुकामाश्च महतां चापि सम्मताः ॥
- 20तेषामशीतियानानि दापय ।शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ॥
- 21व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ।मेखलीनां महासङ्घः कौसल्यां समुपस्थितः ॥
- 22तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय ।अम्बा यथा च सा नन्देत्कौसल्यामम ॥
- 23तथा द्विजातींस्तान्सर्वांल्लक्ष्मणार्चय सर्वशः ।ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ॥
- 24यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ।अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः ॥
- 25सम्प्रदाय बहुद्रव्यमेकैकस्योपजीवनम् ।लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ॥
- 26अशून्यं कार्यमेकैकं यावदागमनं मम ।इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ॥
- 27उवाचेदं धनाध्यक्षं धनमानीयतामिति ।ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः ॥
- 28स सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ।ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः ॥
- 29द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत् ।तत्रासीत्पिङ्गलो गार्ग्य नाम वै द्विजः ॥
- 30उञ्छवृत्तिर्वने नित्यं ।तं वृद्धं तरुणी भार्या बालानादाय दारकान् ॥
- 31अब्रवीद्ब्राह्मणं वाक्यं ।अपास्य फालं कुद्दालं कुरुष्व वचनं मम ॥
- 32रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि ।भार्याया वचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ॥
- 33स प्रातिष्ठत पन्थानं यत्र ।भृग्वङ्गिरसमं त्रिजटं जनसंसदि ॥
- 34आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् ।स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ॥
- 35निर्धनो राजपुत्र महायशः ।उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥
- 36तमुवाच ततो रामः ।गवां सहस्रमप्येकं न तु विश्राणितं मया ॥
- 37परिक्षिपसि यावत्तावदवाप्य्ससि ।स शाटीं त्वरितः कट्यां परिवेष्ट्य ताम् ॥
- 38आविद्ध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ।स तीर्त्वा सरयूपारं दण्डस्तस्य ॥
- 39बहुसाहस्रे पपातोक्षणसन्निधौ ।तं परिष्वज्य आ तस्मात्सरयूतटात् ॥
- 40आनयामास ता गोपैस्त्रिजटायाश्रमं प्रति ।उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् ।मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥
- 41इदं हि तेजस्तव यद्दुरत्ययंतदेव जिज्ञासितुमिच्छता मया ।इमं भवानर्थमभिप्रचोदितोवृणीष्व किं चेदपरं व्यवस्यति ॥
- 42ब्रवीमि न तेऽस्ति यन्त्रणाधनं हि यद्यन्मम ।भवत्सु सम्यक्र्पतिपादनेन त--न्मयाऽऽर्जितं प्रीतियशस्करं भवेत् ॥
- 43ततः सभार्यस्त्रिजटो महामुनि--र्गवामनीकं प्रतिगृह्य मोदितः ।यशोबलप्रीतिसुखोपबृंहणी--स्तदाऽऽशिषः प्रत्यवदन्महात्मनः ॥
- 44स चापि रामः प्रतिपूर्णमानसोमहद्धनं धर्मबलैरुपार्जितम् ।नियोजयामास सुहृज्जनेऽचिरा--द्यथार्हसम्मानवचःप्रचोदितः ॥
- 45द्विजः सुहृद्भृत्यजनोऽथवा तदादरिद्रभिक्षाचरणश्च योऽभवत् ।न तत्र कश्चिन्न बभूव तर्पितोयथार्हसम्माननदानसम्भ्रमैः ॥