Leave

Vālmīki Rāmāyaṇa · The King's Collapse

Tap a verse for its meaning

  1. 1
    ततः श्यामो निरुदरो महान् ।उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥
  2. 2
    स रामप्रेषितः क्षिप्रं ।प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥
  3. 3
    उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् ।तटाकमिव निस्तोयमपश्य ॥
  4. 4
    आलोक्य तु महाप्राज्ञः ।राममेवानुशोचन्तं प्राञ्जलिरासदत् ॥
  5. 5
    तं वर्धयित्वा राजानं सूतः पूर्वं जयाशिषा । वाचा मन्दया श्लक्ष्णमब्रवीत् ॥
  6. 6
    अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः ।ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥
  7. 7
    स त्वा पश्यतु भद्रं ते रामः ।सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ॥
  8. 8
    गमिष्यति महारण्यं तं पश्य जगतीपते ।वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥
  9. 9
    स सत्यवादी धर्मात्मा ।आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥
  10. 10
    नय मे दारान्ये केचिदिह मामकाः ।दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि ॥
  11. 11
    सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।आर्याह्वयति वो राजाऽगम्यतां तत्र मा चिरम् ॥
  12. 12
    एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण ।प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥
  13. 13
    अर्धसप्तशतास्तास्तु प्रमदा ।कौसल्यां परिवार्याथ शनैर्जग्मु ॥
  14. 14
    आगतेषु च दारेषु समवेक्ष्य ।उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥
  15. 15
    स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥
  16. 16
    स राजा पुत्रमायान्तं दृष्ट्वा दूरा ।उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥
  17. 17
    सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः ।तमसम्प्राप्य दुःखार्तः पपात भुवि ॥
  18. 18
    तं रामोऽभ्यपतत्क्षिप्रं लक्ष्मणश्च ।विसञ्ज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥
  19. 19
    स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि ।हा हा रामेति सहसा भूषणध्वनिमूर्छितः ॥
  20. 20
    तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ।पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥
  21. 21
    अथ रामो मुहूर्तेन लब्धसञ्ज्ञं महीपतिम् ।उवाच प्राञ्जलिर्भूत्वा ॥
  22. 22
    आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः ।प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥
  23. 23
    लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥
  24. 24
    अनुजानीहि सर्वान्नः शोकमुत्सृज्य ।लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥
  25. 25
    प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।उवाच राजा सम्प्रेक्ष्य राघवम् ॥
  26. 26
    अहं राघव कैकेय्या वरदानेन मोहितः ।अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥
  27. 27
    एवमुक्तो नृपतिना रामो ।प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥
  28. 28
    भवा पृथिव्या नृपते पतिः ।अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयाऽनृतम् ॥
  29. 29
    वनवासे विहृत्य ते ।पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥
  30. 30
    रुदन्नार्तः प्रियं पुत्रं सम्यतः ।कैकेय्या राजा तमब्रवीत् ॥
  31. 31
    श्रेयसे वृद्धये तात पुनरागमनाय च ।गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥
  32. 32
    न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।विनिवर्तयितुं बुद्धिः शक्यते ॥
  33. 33
    अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ।एकाहदर्शनेनापि साधु तावच्चराम्यहम् ॥
  34. 34
    मातरं मां च सम्पश्यन्वसेमामद्य ।तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥
  35. 35
    दुष्करं क्रियते पुत्र सर्वथा राघव त्वया ।मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि ॥
  36. 36
    न चैतन्मे प्रियं पुत्र शपे सत्येन राघव ।छन्नया चलितस्त्वस्मि स्त्रिया ॥
  37. 37
    वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि ।अनया कैकेय्याऽभिप्रचोदितः ॥
  38. 38
    न चैतदाश्चर्यतमं यत्त्वं ज्येष्ठः सुतो मम ।अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥
  39. 39
    अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ।लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥
  40. 40
    प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति ।उपक्रमणमेवातः सर्वकामैरहं वृणे ॥
  41. 41
    इयं सराष्ट्रा सजना धनधान्यसमाकुला ।मया विसृष्टा प्रदीयताम् ॥
  42. 42
    वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥
  43. 43
    दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ।अहं निदेशं भवतो यथोक्तमनुपालयन् ॥
  44. 44
    चतुर्दश समा वत्स्ये वने वनचरैः सह ।मा विमर्शो वसुमती भरताय प्रदीयताम् ॥
  45. 45
    न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् ।यथानिदेशं कर्तुं वै तवैव रघुनन्दन ॥
  46. 46
    अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः ।न हि क्षुभ्यति दुर्धर्षः सरितां पतिः ॥
  47. 47
    नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् ।नैव सर्वानिमान्कामान्न स्वर्गं नैव जीवितम् ॥
  48. 48
    त्वामहं सत्यमिच्छामि नानृतं ।प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥
  49. 49
    न च शक्यं मया तात स्थातुं क्षणमपि ।स शोकं धारयस्वेमं न हि मेऽस्ति विपर्ययः ॥
  50. 50
    अर्थितो ह्यस्मि वनं गच्छेति राघव ।मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥
  51. 51
    मा चोत्कण्ठां कृथा देव रंस्यामहे वयम् ।प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥
  52. 52
    पिता हि दैवतं देवतानामपि स्मृतम् ।तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥
  53. 53
    वर्षेषु गतेषु नरसत्तम ।पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥
  54. 54
    येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः ।स त्वं किमर्थं विक्रियां गतः ॥
  55. 55
    पुरं च राष्ट्रं च मही च केवलामया निसृष्टा दीयताम् ।अहं निदेशं भवतोऽनुपालय--न्वनं गमिष्यामि चिराय सेवितुम् ॥
  56. 56
    मया निसृष्टां भरतो महीमिमांसशैलषण्डां सपुरां सकाननाम् ।शिवां सुसीमामनुशास्तु केवलंत्वया यदुक्तं तथाऽस्तु तत् ॥
  57. 57
    न मे तथा धीयते मनोमहत्सु कामेषु न चात्मनः प्रिये ।यथा निदेशे तव शिष्टसम्मतेव्यपैतु दुःखं तव मत्कृतेऽनघ ॥
  58. 58
    तदद्य नैवानघ राज्यमव्ययंन सर्वकामान्न सुखं न ।न जीवितं त्वामनृतेन योजय--न्वृणीय सत्यं व्रतमस्तु ते तथा ॥
  59. 59
    फलानि मूलानि च भक्षयन्वनेगिरींश्च पश्यन्सरितः सरांसि च ।वनं प्रविश्यैव विचित्रपादपंसुखी भविष्यामि तवास्तु ॥
  60. 60
    एवं स राजा शोकेन दुःखेन च ताम्यमानः ।आलिङ्ग्य पुत्रं सुविनष्टसञ्ज्ञोमोहं गतो नैव चिचेष्ट किञ्चित् ॥
  61. 61
    देव्यस्ततः संरुरुदुः समेता--स्तां वर्जयित्वा नरदेवपत्नीम् ।रुदन्सुमन्त्रोऽपि जगाम मूर्छांहाहाकृतं तत्र बभूव सर्वम् ॥