Vālmīki Rāmāyaṇa · Siddhārtha's Rebuke
Tap a verse for its meaning
- 1ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।सबाष्पमतिनिश्वस्य जगादेदं पुनः पुनः ॥
- 2रत्नसुसम्पूर्णा चतुर्विधबला ।राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥
- 3रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः ।शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥
- 4ये चैनमुपजीवन्ति रमते यैश्च ।तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥
- 5आयुधानि च मुख्यानि शकटानि च ।अनुगच्छन्तु काकुत्थ्सं व्याधाश्चारण्यगोचराः ॥
- 6निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं ।नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥
- 7धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥
- 8यज देशेषु विसृजंश्चाप्तदक्षिणाः ।ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥
- 9भरतश्च अयोध्यां पालयिष्यति । पुनः श्रीमान्रामः संसाध्यतामिति ॥
- 10एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् ।मुखं चाप्यगमच्छोषं स्वरश्चापि ॥
- 11सा च मुखेन परिशुष्यता ।राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥
- 12राज्यं गतजनं साधो पीतमण्डां सुरामिव ।निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥
- 13कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥
- 14वहन्तं किं मां नियुज्य धुरि माऽहिते । कृत्यमारब्धं किं न पूर्वमुपारुधः ॥
- 15तस्यैतत्क्रोधसम्युक्तंमुक्तं श्रुत्वा वराङ्गना ।कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥
- 16तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् ।असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ॥
- 17एवमुक्तोधिगित्येव राजा दशरथोऽब्रवीत् ।व्रीडितश्च जनः सर्वः सा च तं नावबुध्यत ॥
- 18तत्र वृद्धो सिद्धार्थो नाम नामतः ।शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥
- 19असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् । प्रक्षिपन्नप्सु रमते तेन ॥
- 20तं दृष्ट्वा सर्वे क्रुद्धा राजानमब्रुवन् ।असमञ्जं वृणीष्वैकमस्मान्वा ॥
- 21तानुवाच ततो राजा किं निमित्तमिदं ।ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥
- 22क्रीडतस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः ।सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥
- 23स तासां वचनं श्रुत्वा प्रकृतीनां ।तं तत्याजाहितं पुत्रं तेषां ॥
- 24तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता ॥
- 25स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् ।दिशः सर्वास्त्वनुचरन्स यथा ॥
- 26इत्येवमत्यजद्राजा सगरो वै ।रामः किमकरोत्पापं येनैवमुपरुध्यते ॥
- 27न हि कञ्चन पश्यामो राघवस्यागुणं वयम् ।दुर्लभो ह्यस्य निरयः व कल्मषम् ॥
- 28अथवा देवि दोषं त्वं कञ्चित्पश्यसि राघवे ।तमद्य ब्रूहि तत्वेन ततो रामो विवास्यताम् ॥
- 29हि सन्त्यागः सत्पथे निरतस्य च ।निर्दहेदपि द्युतिं धर्मनिरोधनात् ॥
- 30तदलं देवि रामस्य श्रिया विहतया त्वया ।लोकतोऽपि हि ते रक्ष्यः ॥
- 31श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥
- 32एतद्वचो नेच्छसि हितं न जानासि ममात्मनो वा ।आस्थाय मार्गं कृपणं कुचेष्टाचेष्टा हि ते साधुपथादपेता ॥
- 33अनुव्रजिष्याम्यहमद्य रामंराज्यं परित्यज्य धनं सुखं च ।सहैव राज्ञा भरतेन च त्वंयथा सुखं भुङ्क्ष्व चिराय ॥