Vālmīki Rāmāyaṇa · The Adorning of Sītā and the Farewell to the Mothers
Tap a verse for its meaning
- 1रामस्य तु वचः शृत्वा मुनिवेषधरं च तम् ।समीक्ष्य सह भार्याभिः राजा ॥
- 2नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् ।न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥
- 3स मुहूर्तमिवासञ्ज्ञो दुःखितश्च ।विललाप महाबाहुः राममेवानुचिन्तयन् ॥
- 4मन्ये खलु मया पूर्वं बहवः कृताः ।प्राणिनो हिंसिता वाऽपि तस्मादिदमुपस्थितम् ॥
- 5न त्वेवानागते काले देहाच्च्यवति जीवितम् ।कैकेय्या मृत्युर्मम न विद्यते ॥
- 6योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् ।विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥
- 7एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः ।स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥
- 8एवमुक्त्वा तु वचनं बाष्पेण ।रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह ॥
- 9सञ्ज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः ।नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥
- 10औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।प्रापयैनं महाभागमितो जनपदात्परम् ॥
- 11एवं मन्ये गुणवतां गुणानां फलमुच्यते ।पित्रा मात्रा च यत्साधुर्वीरो वनम् ॥
- 12राज्ञो वचनमाज्ञाय सुमन्त्रः ।योजयित्वाऽऽययौ तत्र रथमश्वैरलङ्कृतम् ॥
- 13तं रथं राजपुत्राय सूतः कनकभूषितम् ।आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥
- 14राजा सत्वरमाहूय व्यापृतं ।उवाच देशकालज्ञं निश्चितं सर्वतः शुचिम् ॥
- 15वासांसि च महार्हाणि भूषणानि वराणि च ।वर्षाण्येतानि सङ्ख्याय क्षिप्रमानय ॥
- 16नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।प्रायच्छत्सर्वमाहृत्य सीतायै सममेव तत् ॥
- 17सा सुजाता सुजातानि प्रस्थिता वनम् ।भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥
- 18व्यराजयत वैदेही वेश्म त ।उद्यतोंशुमतः काले खं प्रभेव विवस्वतः ॥
- 19तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् ।अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥
- 20असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ।भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥
- 21एष नारीणामनुभूय पुरा सुखम् ।अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥
- 22असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा ।युवत्यः पापसङ्कल्पाः क्षणमात्रा ॥
- 23न कुलं न कृतं विद्यां न दत्तं नापि सङ्ग्रहम् ।स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥
- 24साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे ।स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥
- 25स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम ।तव दैवतमस्त्वेषः निर्धनः सधनोऽपि वा ॥
- 26विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् ।कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥
- 27करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् ।ऽस्मि यथा भर्तुः त्वर्तितव्यं श्रुतं च मे ॥
- 28न मामसज्जनेनार्या समानयितुमर्हति ।धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ॥
- 29नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः । सुखमेधेत या स्यादपि शतात्मजा ॥
- 30मितं ददाति हि पिता मितं माता मितं सुतः ।अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
- 31साऽहमेवङ्गता श्रेष्ठा श्रुत ।आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥
- 32सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् । मुमोचाश्रु सहसा दुःखहर्षजम् ॥
- 33तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् ।रामः मातरं वाक्यमब्रवीत् ॥
- 34अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम ।क्षयो हि क्षिप्रमेव भविष्यति ॥
- 35सुप्तायास्ते गमिष्यन्ति ।सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥
- 36एतावदभिनीतार्थमुक्त्वा स जननीं वचः ।त्रयः शतशतार्धाश्च ददर्शावेक्ष्य ॥
- 37ताश्चापि स तथैवार्ता मातॄ ।धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥
- 38संवासात्परुषं किञ्चिदज्ञानाद्वाऽपि यत्कृतम् ।तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥
- 39वचनं राघवस्यैतद्धर्मयुक्तं समाहितम् ।शुश्रुवुस्ताः स्त्रियः सर्वाः ॥
- 40जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः ।मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥
- 41मुरजपणवमेघघोषव-- बभूव यत्पुरा ।विलपितपरिदेवनाकुलंव्यसनगतं तदभूत्सुदुःखितम् ॥