Leave

Vālmīki Rāmāyaṇa · The King's Collapse and Renunciation

Tap a verse for its meaning

  1. 1
    यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी ॥
  2. 2
    यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।तावद्व्यवर्धतेवास्य धरण्यां ॥
  3. 3
    न पश्यति रजोऽप्यस्य यदा रामस्य ।तदाऽर्तश्च विषण्णश्च पपात धरणीतले ॥
  4. 4
    तस्य दक्षिणमन्वागा बाहुमङ्गना ।वामं चास्यान्वगात्पार्श्वं भरतप्रिया ॥
  5. 5
    तां च सम्पन्नो धर्मेण विनयेन च ।उवाच राजा कैकेयीं समीक्ष्य ॥
  6. 6
    कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं ।न हि त्वां द्रष्टुमिच्छामि न भार्या न च ॥
  7. 7
    ये च त्वामनुजीवन्ति नाहं तेषां न ते मम ।केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥
  8. 8
    अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् ।अनुजानामि तत्सर्वमस्मिन् लोके परत्र च ॥
  9. 9
    भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ।यन्मे स दद्यात्पित्रर्थं मामां तद्दत्तमागमत् ॥
  10. 10
    अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् ।न्यवर्तत तदा देवी कौसल्या ॥
  11. 11
    हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाऽग्निमिव पाणिना ।अन्वतप्यत पुत्रं सञ्चिन्त्य तापसम् ॥
  12. 12
    निवृत्यैव निवृत्यैव सीदतो ।राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥
  13. 13
    विललाप च प्रियं पुत्रमनुस्मरन् ।नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥
  14. 14
    वाहनानां च मुख्यानां वहतां तं ममात्मजम् ।पदानि पथि दृश्यन्ते स न दृश्यते ॥
  15. 15
    यः सुखेषूषधानेषु शेते ।वीज्यमानो महार्हाभिः स्त्रीभिर्मम ॥
  16. 16
    स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।काष्ठं वा यदि वाऽश्मानमुपधाय शयिष्यते ॥
  17. 17
    उत्थास्यति च मेदिन्याः कृपणः ।विनिश्श्वसन्प्रस्रवणात्करेणूनामिवर्षभः ॥
  18. 18
    द्रक्ष्यन्ति नूनं पुरुषाः दीर्घबाहुं वनेचराः ।राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥
  19. 19
    सा नूनं सुखसदोचिता । वनमद्य गमिष्यति ॥
  20. 20
    वनानां सा नूनं भयमुपैष्यति ।श्वापदानर्धितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥
  21. 21
    कैकेयि विधवा राज्यमावस ।न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥
  22. 22
    इत्येवं विलपन्राजा जनौघेनाभिसंवृतः ।अपस्नात इवारिष्टं प्रविवेश ॥
  23. 23
    शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् ।क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥
  24. 24
    तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।विलपन्प्राविशद्राजा गृहं सूर्य इवाम्बुदम् ॥
  25. 25
    महाह्रदमिवाक्षोभ्यं हृतोरगम् ।रामेण रहितं वेश्म लक्ष्मणेन च ॥
  26. 26
    अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।उवाच मृदुमन्दार्थं वचनं ॥
  27. 27
    कौसल्यायां गृहं शीघ्रं राममातुर्नयन्तु माम् ।न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ॥
  28. 28
    इति ब्रुवन्तं राजानमनय ।कौसल्याया गृहं तत्र न्यवेश्यत ॥
  29. 29
    ततस्तस्य प्रविष्टस्य कौसल्याया ।अधिरुह्यापि शयनं बभूव लुलितं मनः ॥
  30. 30
    पुत्रद्वयविहीनं च स्नुषयाऽपि विवर्जितम् ।अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥
  31. 31
    तच्च दृष्ट्वा महाराजो भुजमुद्यम्य ।उच्चैःस्वरेण चुक्रोश जहासि माम् ॥
  32. 32
    सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ।परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥
  33. 33
    अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः ।अर्धरात्रे कौसल्यामिदमब्रवीत् ॥
  34. 34
    रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ।न त्वा पश्यामि साधुमां स्पृश ॥
  35. 35
    तं राममेवानुविचिन्तयन्तंसमीक्ष्य देवी शयने ।उपोपविश्याधिकमार्तरूपाविनिश्वसन्ती विललाप कृच्छ्रम् ॥