Vālmīki Rāmāyaṇa · Sumitrā's Consolation
Tap a verse for its meaning
- 1विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।इदं स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥
- 2तवार्ये सद्गुणैर्युक्तः स पुत्रः ।किं ते विलपितेनैवं कृपणं रुदितेन वा ॥
- 3यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं ।साधु कुर्वन्महात्मानं पितरं ॥
- 4शिष्टैराचरिते सम्यक्छश्वत्प्रेत्य ।रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥
- 5वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन्सदाऽनघः ।र्वभूतेषु लाभस्तस्य महात्मनः ॥
- 6अरण्यवासे यद्दुःखं जानती वै ।अनुगच्छति धर्मात्मानं तवात्मजम् ॥
- 7कीर्तिभूतां पताकां यो लोके भ्रामयति ।दर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः ॥
- 8व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् ।न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ॥
- 9शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः ।राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥
- 10शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।रश्मिभिः संस्पृशन्शीतैः चन्द्रमाह्लादयिष्यति ॥
- 11ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा ।दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥
- 12स शूरः स्वबाहुबलमाश्रितः ।असन्त्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ॥
- 13यस्येषुपदमासाद्य विनाशं यान्ति शत्रवः ।कथं न पृथिवी तस्य स्थातुमर्हति ॥
- 14या शौर्यं च रामस्य या च ।निवृत्तारण्यवासः स क्षिप्रं राज्यमवाप्स्यति ॥
- 15सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ।श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमा ॥
- 16दैवतं दैवतानां च भूतानां भूतसत्तमः ।तस्य के ह्यगुणा देवि राष्ट्रे वाऽप्यथवा पुरे ॥
- 17पृथिव्या सह वैदेह्या श्रिया च ।क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥
- 18दुःखजं विसृजन्त्यास्रं निष्क्रामन्तमुदीक्ष्य यम् ।अयोध्यायां जनाः सर्वे ॥
- 19कुशचीरधरं देवं गच्छन्तमपराजितम् ।सीतेवानुगता लक्ष्मीस्तस्य किंनाम दुर्लभम् ॥
- 20धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।लक्ष्मणो व्रजति ह्यग्रे तस्य किंनाम दुर्लभम् ॥
- 21निवृत्तवनवासं तं द्रष्टासि पुनरागतम् । शोकं च मोहं च देवि सत्यं ब्रवीमि ते ॥
- 22चरणावेतौ वन्दमानमनिन्दिते ।पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥
- 23पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् ।समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ॥
- 24मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम् ।क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम् ॥
- 25त्वयाऽशेषो जनश्चैव समाश्वास्यो यदाऽनघे ।किमिदानीमिमं देवि करोषि हृदि ॥
- 26नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः ।न हि रामात्परो लोके विद्यते स्थितः ॥
- 27अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।मुदाऽश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव ॥
- 28पुत्रस्ते क्षिप्रमयोध्यां पुनरागतः ।पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥
- 29अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् ।मुदाऽस्त्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ॥
- 30आश्वासयन्ती विविधैश्च वाक्यैः कुशलाऽनवद्या ।रामस्य तां मातरमेवमुक्त्वादेवी विरराम रामा ॥
- 31निशम्य तल्लक्ष्मण मातृवाक्यम्रामस्य मातुर्नरदेवपत्न्याः ।सद्यः शरीरे विननाश मेघ इवाल्पतोयः ॥