Vālmīki Rāmāyaṇa · The Citizens' Return
Tap a verse for its meaning
- 1प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना ।शोकोपहतनिश्चेष्टा बभूवु ॥
- 2शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः ।आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥
- 3ते रहितास्तेन धीमता ।कृपणाः करुणा वाचो वदन्ति स्म ॥
- 4धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः ।नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥
- 5कथं नाम महाबाहुः स तथाऽवितथक्रियः ।भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥
- 6यो नः सदा पालयति पिता पुत्रानिवौरसान् ।कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥
- 7इहैव निधनं यामो महाप्रस्थानमेव वा ।रामेण रहितानां हि किमर्थं जीवितं हि नः ॥
- 8सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ ॥
- 9किं वक्ष्यामो महाबाहुरनसूयः ।नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ॥
- 10सा नूनं दीना दृष्ट्वाऽस्मान्राघवं विना ।भविष्यति सस्त्रीबालवयोऽधिका ॥
- 11निर्यातास्तेन वीरेण सह नित्यं ।विहिनास्तेन च पुनः कथं पश्याम तां ॥
- 12इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।विलपन्ति स्म दुःखर्ता विवत्सा इव ॥
- 13ततः गत्वा किञ्चित् क्षणं पुनःमार्गनाशाद्विषादेन महता समभिप्लुताः ॥
- 14मार्गनाशेन न्यवर्तन्त मनस्विनः ।किमिदं किं करिष्यामो दैवेनोपहता इति ॥
- 15ततः यथागतेनैव मार्गेण क्लान्तचेतसः । पुरीं ॥
- 16आलोक्य नगरीं तां च ।आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः ॥
- 17एषा रामेण नगरी रहिता नातिशोभते ।आपगा ह्रदादुद्धृतपन्नगा ॥
- 18चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् ।अपश्यन्निहतानन्दं नगरं ते विचेतसः ॥
- 19ते तानि वेश्मानि दुःखेन दुःखोपहता विशन्तः ।नैव प्रजज्ञुः स्वजनं जनं वानिरीक्षमाणाः ॥