Vālmīki Rāmāyaṇa · The Lament of the Women of Ayodhyā
Tap a verse for its meaning
- 1तेषामेवं विषण्णानां पीडितानामतीव च ।बाष्पविप्लुतनेत्राणां सशोकानां ॥
- 2अनुगम्य निवृत्तानां रामं ।उद्गतानीव बभूवुरमनस्विनाम् ॥
- 3स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः । मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥
- 4न चाहृष्यन्न चामोदन्वणिजो न प्रसारयन् ।न चाशोभन्त नापचन्गृहमेधिनः ॥
- 5नष्टं दृष्ट्वा पुलं वा धनागमम् ।पुत्रं प्रथमजं लब्ध्वा नाभ्यनन्दत ॥
- 6गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् ।व्यगर्हयन्त वाग्भिस्तोत्रैरिव द्विपान् ॥
- 7किं नु तेषां गृहैः कार्यं किं दारैः किं वा ।पुत्रैर्वा किं सुखैर्वाऽपि ये न पश्यन्ति ॥
- 8एकः सत्पुरुषो लोके सह सीतया ।योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने ॥
- 9कृतपुण्यास्ताः पद्मिन्यश्च च ।येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥
- 10शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः ।आपगाश्च महानूपाः सानुमन्तश्च ॥
- 11काननं वाऽपि शैलं वा यं रामोऽभिगमिष्यति ।प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥
- 12विचित्र बहुमञ्जरिधारिणः ।राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ॥
- 13चाऽपि मुख्यानि पुष्पाणि च फलानि च ।दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ॥
- 14प्रस्रविष्यन्ति तोयानि विमलानि ।विदर्शयन्तः विविधान्भूयश्चित्रांश्च ॥
- 15पर्वताग्रेषु रमयिष्यन्ति राघवम् ।यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥
- 16स हि शूरो पुत्रो दशरथस्य च ।पुरा भवति नो दूरादनुगच्छाम राघवम् ॥
- 17सुखा भर्तुस्तादृस्य महात्मनः ।स हि नाथो जनस्यास्य स गतिः स ॥
- 18वयं सीतां यूयं तु राघवम् ।इति पौरस्त्रियो भर्तृन्दुःखार्तास्तत्तदब्रुवन् ॥
- 19युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ।सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥
- 20को न्वनेनाप्रतीतेन च ।सम्प्रीयेतामनोज्ञेन हृतचेतसा ॥
- 21कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् ।न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥
- 22यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।कं सा परिहरेदन्यं ॥
- 23कैकेय्या न वयं राज्ये भृतका निवसेमहि ।जीवन्त्या जातु जीवन्त्यः पुत्रैरपि ॥
- 24या पुत्रं पार्थिवेन्द्रस्य प्रवासयति ।कस्तां प्राप्य सुखं जीवेदधर्म्यां ॥
- 25उपद्रुतमिदं सर्वमनालम्बमनायकम् ।कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ॥
- 26न हि रामे जीविष्यति महीपतिः ।मृते दशरथे व्यक्तं विलोपस्तदनन्तरम् ॥
- 27ते विषं पिबतालोड्य क्षीणपुण्याः ।राघवं वाऽनुगच्छध्वमश्रुतिं वाऽपि गच्छत ॥
- 28प्रव्राजितः रामः सभार्यः सहलक्ष्मणः ।भरते सन्निसृष्टाः स्मः पशवो यथा ॥
- 29श्यामो गूढजत्रुररिन्दमः । पद्माक्षो रामो लक्ष्मणपूर्वजः ॥
- 30पूर्वाभिभाषी मधुरः महाबलः ।सौम्यश्च सर्वलोकस्य यदर्शनः ॥
- 31नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।शोभयुश्यत्यरण्यानि विचरन्स ॥
- 32तास्तथा विलपन्त्यस्तु नगरे ।चुक्रुशुर्दुःखसन्तप्ता मृत्योरिव भयागमे ॥
- 33इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् ।जगामास्तं दिनकरो चाभ्यवर्तत ॥
- 34नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।भिलिप्तेव सा तदा बभौ ॥
- 35उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया । नगरी चासीन्नष्टतारमिवाम्बरम् ॥
- 36तथा स्त्रियो रामनिमित्तमातुराःयथा सुते भ्रातरि वा ।विलप्य दीना रुरुदुर्विचेतसःसुतैर्हि तासामधिको हि सोऽभवत् ॥
- 37प्रशान्तनृत्तवादनाव्यपास्तहर्षा पिहितापणोदया ।तदा ह्ययोध्या नगरी बभूव सा सङ्क्षपितोदको यथा ॥