Vālmīki Rāmāyaṇa · Crossing the Borders of Kosala
Tap a verse for its meaning
- 1रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् ।जगाम पितुराज्ञामनुस्मरन् ॥
- 2तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा ।उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ॥
- 3ग्रामान्विकृष्टसीमान्तान्पुष्पितानि वनानि च ।पश्यन्नतिययौ शीघ्रं शनैरिव ।शृण्वन्वाचो मनुष्याणां ॥
- 4विगर्हितां हि कैकेयीं क्रूरां क्रूरेण कर्मणा ।राजानं धिग्दशरथं वशमागतम् ॥
- 5हा ऽद्य कैकेयी पापा पापानुबन्धिनी ।तीक्ष्णा तीक्ष्णकर्मणि वर्तते ॥
- 6या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।वनवासे महाप्राज्ञं सानुक्रोशं ॥
- 7कथं नाम महाभागा सीता ।सदा दुःखान्यनुभविष्यति ॥
- 8अहो दशरथो राजा स्वसुतं प्रियम् ।प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥
- 9एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।शृण्वन्नतिययौ वीरः कोसला ॥
- 10ततः वेदश्रुतिं नाम शिववारिवहां नदीम् ।उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥
- 11गत्वा तु सुचिरं कालं ततः शिवजलां नदीम् ।गोमतीं गोयुतानूपामतरत्सागरङ्गमाम् ॥
- 12गोमतीं चाप्यतिक्रम्य शीघ्रगैर्हयैः ।मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥
- 13स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।स्फीतां राष्ट्रावृतां रामः वैदेहीमन्वदर्शयत् ॥
- 14सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः ।हंसमत्तस्वरः श्रीमानुवाच ॥
- 15कदाऽहं पुनरागम्य पुष्पिते वने ।मृगयां पर्याटिष्यामि मात्रा पित्रा च सङ्गतः ॥
- 16राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने ।काले कृतां तां मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥
- 17नात्यर्थमभिकाङ्क्षामि मृगयां ।रतिर्ह्येषाऽतुला लोके ॥
- 18स तमध्वानमैक्ष्वाकः सूतं ।तन्तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥