Leave

Vālmīki Rāmāyaṇa · A Dwelling on Citrakūṭa

Tap a verse for its meaning

  1. 1
    अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् । लक्ष्मणं रघुनन्दनः ॥
  2. 2
    शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।सम्प्रतिष्ठामहे कालः प्रस्थानस्य ॥
  3. 3
    स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथिश्रमम् ॥
  4. 4
    ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।पन्थानमृषिणाऽऽदिष्टं तं ययुः ॥
  5. 5
    ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।सीतां कमल पत्राक्षीमिदं वचनमब्रवीत् ॥
  6. 6
    आदीप्तानिव वैदेहि सर्वतः ।स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥
  7. 7
    पश्य फुल्लान् नरैः अनुपसेवितान् ।फल पत्रैः अवनतान् नूनं शक्ष्यामि जीवितुम् ॥
  8. 8
    पश्य लम्बमानानि लक्ष्मण ।मधूनि मधुकारीभिः सम्भृतानि नगे नगे ॥
  9. 9
    एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति ।रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥
  10. 10
    मातङ्गयूथानुसृतं पक्षि सङ्घानुनादितम् ।चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥
  11. 11
    समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।पुण्ये रंस्यामहे चित्रकूटस्य कानने ॥
  12. 12
    ततस्तौ गच्छन्तौ सह सीतया ।रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥
  13. 13
    तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।बहुमूलफलं रम्यं सम्पन्नं ॥
  14. 14
    मनोज्ञोऽयं गिरिः सौम्य नानाद्रुमलतायतः ।बहुमूलफलो रम्यः प्रतिभाति मे ॥
  15. 15
    मुनयश्च महात्मानो वसन्त्यस्मिन् ।अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥
  16. 16
    इति सीता च रामश्च लक्ष्मणश्च ।अभिगम्याश्रमं सर्वे वाल्मीकि मभिवादयन् ॥
  17. 17
    तान्महर्षिः प्रमुदितः पूजयामास ।आस्यतामिति चोवाच स्वागतं तु निवेद्य च ॥
  18. 18
    ततोऽब्रवीन्महाबाहुर्लक्ष्मणं ।संनिवेद्य यथान्यायमात्मानमृषये प्रभुः ॥
  19. 19
    लक्ष्मणानय दारूणि दृढानि च वराणि च ।कुरुष्वावसथं सौम्य वासे मे अभिरतं मनः ॥
  20. 20
    तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥
  21. 21
    तां निष्ठितां बद्धकटां दृष्ट्वा रमः ।शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ॥
  22. 22
    ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ।कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥
  23. 23
    मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह शुभेक्षण ।कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥
  24. 24
    भ्रातुर्वचन माज्ञाय लक्ष्मणः ।चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥
  25. 25
    ऐणेयं श्रपयस्वैतच्छालां यक्ष्यमहे वयम् ।त्वरसौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम् ॥
  26. 26
    स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।अथ चिक्षेप सौमित्रिः समिद्धे ॥
  27. 27
    तं तु पक्वं समाज्ञाय निष्टप्तं छिन्न शोणितम् ।लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥
  28. 28
    अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगे यथा ।देवतां यजस्व कुशलो ह्यसि ॥
  29. 29
    रामः स्नात्वा तु नियतः गुणवान् ।सङ्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥
  30. 30
    इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः ।बभूव च मनोह्लादो रामस्यामिततेजसः ॥
  31. 31
    वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च ।वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥
  32. 32
    जपं च न्यायतः कृत्वा स्नात्वा नद्यां ।पाप संशमनं रामश्चकार बलिमुत्तमम् ॥
  33. 33
    चैत्यान्यायतनानि च ।आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥
  34. 34
    वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।अद्भिर्जपैश्च वेदोक्तैर्धर्भैश्च ससमि ॥
  35. 35
    तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।तदा विविशतुः शालां सुशुभां ॥
  36. 36
    तां वृक्षपर्णच्छदनां मनोज्ञांयथा प्रदेशं सुकृतां निवाताम् ।वासाय सर्वे विविशुः समेताःसभां यथा देवगणाः सुधर्माम् ॥
  37. 37
    अनेकनानामृगपक्षिसङ्कुलेविचित्रपुष्पस्तबकैर्द्रुमैः युते ।वनोत्तमे व्यालमृगानुनादितेतथा विजह्रुः सुसुखं ॥
  38. 38
    सुरम्यमासाद्य तु चित्रकूटंनदीं च तां माल्यवतीं सुतीर्थाम् ।ननन्द हृष्टः मृग पक्षिजुष्टांजहौ च दुःखं ॥