Leave

Vālmīki Rāmāyaṇa · The Envoys to Kekaya

Tap a verse for its meaning

  1. 1
    तेषां हि वचनं श्रुत्वा प्रत्युवाच ह ।मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वचः ॥
  2. 2
    यदसौ मातुलकुले दत्तराज्यः परं सुखी । वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥
  3. 3
    तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैः हयैः ।आनेतुं भ्रातरौ किं समीक्षामहे वयम् ॥
  4. 4
    गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् ।तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ॥
  5. 5
    एहि विजय जयन्ताशोक नन्दन ।श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ॥
  6. 6
    पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैः हयैः ।त्यक्तशोकैरिदं वाच्यः मम ॥
  7. 7
    पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥
  8. 8
    मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ।भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम् ॥
  9. 9
    च वस्त्राणि भूषणानि वराणि च ।क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ॥
  10. 10
    दूताजग्मुः स्वं स्वं निवेशनम् । गमिष्यन्तो हयानारुह्य सम्मतान् ॥
  11. 11
    ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् ।भ्यनुज्ञाता दूताः सन्त्वरिता ययुः ॥
  12. 12
    न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति ।निषेवमाणास्ते जग्मुर्नदीं मध्येन ॥
  13. 13
    ते गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः ।पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥
  14. 14
    सरांसि च सुपूर्णानि नदीश्च विमलोदकाः ।निरीक्षमाणास्ते जग्मुर्धूताः कार्यवशाद्द्रुतम् ॥
  15. 15
    ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् ।उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम् ॥
  16. 16
    निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् ।अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् ॥
  17. 17
    अभिकालं ततः प्राप्यते बोधिभवनाच्च्युताम् ।पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम् ॥
  18. 18
    अवेक्ष्याञ्जलिपानांश्च ।ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम् ॥
  19. 19
    विष्णोः पदं प्रेक्षमाणा विपाशां चापि ।नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ॥
  20. 20
    पस्यन्तो विविधांश्चापि ।ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः ॥
  21. 21
    ते श्रान्तवाहना दूताः विकृष्णेन पथा ततः ।गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा ॥
  22. 22
    भर्तुः प्रियार्थं भर्तुश्च वंशस्य परिग्रहार्थम् ।अहेडमानास्त्वरया स्म दूताःरात्र्यां तु ते तत्पुरमेव याताः ॥