Vālmīki Rāmāyaṇa · The Return to Ayodhyā
Tap a verse for its meaning
- 1स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् ।ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ॥
- 2ह्लादिनीं दूरपारां च प्रत्यक् स्रोतस्तरङ्गिणीम् ।शतद्रूमतरच्छ्रीमान् नदीमिक्ष्वाकुनन्दनः ॥
- 3एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् ।शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् ॥
- 4सत्य सन्धः शुचिः श्रीमान् प्रेक्षमाणः ।अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति ॥
- 5सरस्वतीं च गङ्गां च प्रतिपद्य च ।उत्तरं वीरमत्स्यानां भारुण्डं प्राविशद्वनम् ॥
- 6वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् ।यमुनां प्राप्य सन्तीर्णो बलमाश्वासयत्तदा ॥
- 7शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य ।तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ॥
- 8महारण्यमनभीक्ष्णोपसेवितम् ।भद्रः भद्रेण यानेन खमिवात्ययात् ॥
- 9भागीरथीं दुष्प्रतरामंशुधाने महानदीम् ।उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे ॥
- 10स गङ्गां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम् ।सबलस्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम् ॥
- 11तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत् ।वरूथं च ययौ रम्यं ग्रामं ॥
- 12तत्र रम्ये वने वासं कृत्वाऽसौ ययौ ।उद्यानमुज्जिहानायाः यत्र पादपाः ॥
- 13सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः ।अनुज्ञाप्याथ भरतः त्वरितः ययौ ॥
- 14वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् ।अन्या नदीश्च विविधाः पार्वतीयै ॥
- 15हस्ति पृष्ठकमासाद्य कुटिकामत्यवर्तत ।ततार च स कपीवतीम् ॥
- 16एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ।व्यपायाद्राघवस्तूर्णं तीर्त्वा शोणां म् ।कलिङ्गनगरे चापि प्राप्य तदा ॥
- 17क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः ।वनं च समतीत्याशु शर्वर्यामरुणोदये ॥
- 18अयोध्यां राज्ञा निर्मितां सन्ददर्श ह ।तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषितः पथि ॥
- 19अयोध्यामग्रतर्दृष्ट्वा सारथिं वाक्यमब्रवीत् ।एषा नातिप्रतीता मे पुण्योद्याना ॥
- 20अयोध्या दृश्यते दूरात् पाण्डुमृत्तिका ।यज्वभिर्गुणसम्पन्नैः वेदपारगैः ॥
- 21भूयिष्ठमृद्धैराकीर्णा ।अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् ॥
- 22समन्तान्नरनारीणां तमद्य न शृणोम्यहम् । हि सायाह्ने क्रीडित्वोपरतैर्नरैः ॥
- 23समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा ।तान्यद्यानुरुदन्तीव कामिभिः ॥
- 24अरण्य भूतेव सारथे प्रतिभाति मे ।न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः ॥
- 25निर्यान्तः वाऽभियान्तः वा नरमुख्या यथापुरम् ।उद्यानानि पुरा भान्ति मत्त च ॥
- 26जनानां रतिसम्योगेष्वत्यन्तगुणवन्ति च ।तान्येतान्यद्य पश्यामि सर्वशः ॥
- 27स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः ।नाद्यापि श्रूयते शब्दो मत्तानां ॥
- 28संरक्तां कलं व्याहरतां बहु । धूपसम्मूर्चितोऽतुलः ॥
- 29प्रवाति श्रीमान् किं नु नाद्य यथापुरम् ।भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः ॥
- 30किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा । च पापानि पश्यामि विविधानि च ॥
- 31निमित्तान्यमनोज्ञानि तेन सीदति मे मनः ।सर्वथा कुशलं सूत दुर्लभं मम बन्धुषु ॥
- 32तथा ह्यसति सम्मोहे हृदयं सीदतीव मे । शान्तहृदयस्त्रस्तः संलुलितेन्द्रियः ॥
- 33प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।द्वारेण प्राविशच्छ्रान्तवाहनः ॥
- 34विजयं पृष्टस्तैः सहितो ययौ ।स त्वनेकाग्रहृदयो प्रत्यर्च्य तं जनम् ॥
- 35सूतमश्वपतेः क्लान्तमब्रवीत्तत्र ।किमहं त्वरयाऽऽनीतः कारणेन विनाऽनघ ॥
- 36हृदयं शीलं च पततीव मे ।श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ॥
- 37आकारांस्तानहं सर्वान् इहपश्यामि सारथे ।सम्मार्जनविहीनानि ॥
- 38असम्यतकवाटानि सर्वशः ।बलिकर्मविहीनानि धूपसम्मोदनेन च ॥
- 39अनाशितकुटुम्बानि प्रभाहीनजनानि च । पश्यामि कुटुम्बिभवनान्यहम् ॥
- 40अपेतमाल्यशोभान्यप्यसंमृष्टाजिराणि च । न चाभान्ति यथापुरम् ॥
- 41प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः ।माल्यापणेषु राजन्ते नाद्य वा तथा ॥
- 42दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै ।ध्यानसंविग्नहृदयाः नष्टयन्त्रिताः ॥
- 43देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ।मलिनं चाश्रु पूर्णाक्षं कृशम् ॥
- 44सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे ।इत्येवमुक्त्वा भरतः सूतं तं ।तान्यरिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥
- 45तां रजोऽरुण द्वारकवाटयन्त्राम् ।दृष्ट्वा पुरीमिन्द्रपुरप्रकाशाम् सम्पूर्णतरः बभूव ॥
- 46बहूनि पश्यन् मनसोऽप्रियाणियान्यन्यदा नास्य पुरे बभूवुः ।अवाक्छिरा दीनमना नहृष्टःपितु प्रविवेश वेश्म ॥