Vālmīki Rāmāyaṇa · Crossing the Ganges
Tap a verse for its meaning
- 1व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स ।भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥
- 2शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।शीघ्रमानय भद्रं ते वाहिनीम् ॥
- 3नाहं स्वपिमि तमेवार्यं विचिन्तयन् ।इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः ॥
- 4इति संवदतोरेवमन्योन्यं ।आगम्य काले गुहो भरतमब्रवीत् ॥
- 5कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ ।कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ॥
- 6गुहस्य वचनं श्रुत्वा तत्तु ।रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥
- 7सुखा नः राजन् पूजिताश्चापि ते वयम् ।गङ्गां तु नौभिर्बह्वीभि सन्तारयन्तु नः ॥
- 8ततो गुहः सन्त्वरितं श्रुत्वा ।प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥
- 9उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः सदा ।नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥
- 10ते तथोक्ताः समुत्थाय त्वरिता ।पञ्चनावां शतान्याशु समानिन्युः समन्ततः ॥
- 11अन्याः महाघण्टाधरा वराः ।शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः ॥
- 12ततः स्वस्तिकविज्ञेयां ।सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ॥
- 13तामारुरोह भरतः शत्रुघ्नश्च महाबलः ।कौसल्या च सुमित्रा च याश्चान्या ॥
- 14पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।अनन्तरं राजदारास्तथैव ॥
- 15आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥
- 16पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः ।वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥
- 17नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥
- 18ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् ।निवृत्ताः काण्डचित्राणि क्रियन्ते ॥
- 19सवैजयन्तास्तु गजारोहप्रचोदिताः ।तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥
- 20नावस्त्वारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥
- 21सा पुण्या गङ्गा दाशैः सन्तारिता स्वयम् । प्रययौ प्रयागवनमुत्तमम् ॥
- 22आश्वासयित्वा च चमूं महात्मानिवेशयित्वा च यथोपजोषम् ।द्रष्टुं भरद्वाजमृषिप्रवर्यम्ऋत्विग्वृतः सन्भरतः प्रतस्थे ॥
- 23स ब्राह्मणस्याऽश्रममभ्युपेत्यमहात्मनो ।ददर्श महद्वनं विप्रवरस्य रम्यम् ॥