Vālmīki Rāmāyaṇa · Bharata Meets Bharadvāja
Tap a verse for its meaning
- 1भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव ।बलं सर्वमवस्थाप्य जगाम सहमन्त्रिभिः ॥
- 2पद्भ्यामेव हि ।वसानो वाससी क्षौमे पुरोधाय ॥
- 3ततः सन्दर्शने तस्य भरद्वाजस्य ।मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥
- 4वसिष्ठमथ दृष्ट्वैव भरद्वाजो ।सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥
- 5समागम्य वसिष्ठेन भरतेनाभिवादितः ।अबुध्यत सुतं दशरथस्य तम् ॥
- 6ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च ।आनुपूर्व्याच्छ धर्मज्ञः पप्रच्छ कुशलं कुले ॥
- 7अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥
- 8वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥
- 9तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः ।भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥
- 10किमिहागमने कार्यं तव राज्यं प्रशासतः ।एतदाचक्ष्व मे सर्वं ॥
- 11सुषुवे यममित्रघ्नं ऽनन्दवर्धनम् ।भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥
- 12नियुक्तः पित्रा योऽसौ महायशाः । भवेतीह समाः किल चतुर्दश ॥
- 13कच्छिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।अकण्टकं भोक्तुमनाः राज्यं तस्यानुजस्य च ॥
- 14एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह ।पर्यश्रुनयनो दुःखाद्वाचा ॥
- 15यदि मामेवं भगवानपि मन्यते ।मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥
- 16न चैतदिष्टं माता मे यदवोच ।नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥
- 17अहं तु तं नरव्याघ्रमुपयातः ।प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥
- 18त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।शंस मे भगवन्रामः क्व सम्प्रति ॥
- 19वसिष्ठादिभिरृत्विग्भिर्याचितो भगवांस्ततः ।उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ॥
- 20त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥
- 21जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति ।अपृच्छं त्वां तथाऽत्यर्थं कीर्तिं समभिवर्धयन् ॥
- 22जाने च रामं धर्मज्ञं ।असौ वसति ते भ्राता महागिरौ ॥
- 23श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ।एतन्मे कुरु कामं कामार्थकोविद ॥
- 24ततस्तथेत्येवमुदारदर्शनःप्रतीतरूपो भरतोऽब्रवीद्वचः ।चकार बुद्धिं च तदा तदाश्रमे नराधिपाऽत्मजः ॥