Vālmīki Rāmāyaṇa · The Road to Chitrakūṭa
Tap a verse for its meaning
- 1ततस्तां रजनीं व्युष्य सपरिच्छदः ।कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥
- 2तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥
- 3कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥
- 4तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च ।आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥
- 5सुखोषितोऽस्मि समग्रबलवाहनः ।तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥
- 6अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः ।अपि प्रेष्यानुपादाय सर्वे स्म ॥
- 7आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तमः ।समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥
- 8आश्रमं तस्य धार्मिकस्य महात्मनः ।आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥
- 9इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।प्रत्युवाच महातेजाः ॥
- 10भरतार्धतृतीयेषु योजनेष्वजने वने ।चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥
- 11उत्तरं पार्श्वमासाद्य तस्य नदी ।पुषिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥
- 12अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः ।तयोः तात तत्र तौ वसतो ध्रुवम् ॥
- 13दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।गजवाजिरथाकीर्णां वाहिनीं ॥
- 14वाहयस्व महाभाग ततो द्रक्ष्यसि ।प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः ॥
- 15हित्वा यानानि यानार्हाः ब्राह्मणं पर्यवारयन् ।वेपमाना कृशा दीना सह देव्या ॥
- 16तत्र जग्राह कराभ्यां चरणौ मुनेः ।असमृद्धेन कामेन सर्वलोकस्य गर्हिता ॥
- 17तस्य जग्राह चरणौ सव्यपत्रपा ।तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ॥
- 18अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।ततः पप्रच्छ भरतं भरद्वाजो ॥
- 19विशेषं ज्ञातुमिच्छामि मातॄणां तव ।एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ॥
- 20उवाच प्राञ्जलिर्भूत्वा वाक्यं ।यामिमां भगवन् दीनां शोकानशनकर्शिताम् ॥
- 21पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ॥
- 22सुषुवे रामं धातारमदितिर्यथा ।अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ॥
- 23शाखेव शीर्णपुष्पा वनान्तरे ।एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ॥
- 24उभौ वीरौ सत्यपराक्रमौ ।यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ॥
- 25राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ।क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ॥
- 26ऐश्वर्यकामां मनार्यामार्यरूपिणीम् ।ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ॥
- 27यतोमूलं हि पश्यामि व्यसनं महदात्मनः ।इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ॥
- 28स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ।भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ॥
- 29प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ।न दोषेणावगन्तव्या भरत त्वया ॥
- 30रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ।देवानां दानवानां च ऋषीणां भावितात्मनाम् ॥
- 31हितमेव भविष्यद्धि रामप्रव्राजनादिह ।अभिवाद्य तु संसिद्धः कृत्वा चैनं ॥
- 32आमन्त्र्य सैन्यं युज्यतामित्यचोदयत् ।ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्कृतान् ॥
- 33अध्यारोह बहून्बहुविधो जनः ।गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः ॥
- 34इव घर्मान्ते सघोषाः सम्प्रतस्थिरे ।विविधान्यपि यानानि महान्ति च लघूनि च ॥
- 35प्रययुः सुमहार्हाणि पादैरेव पदातयः ।अथ यानप्रवेकैस्तु स्त्रियः ॥
- 36प्रययुर्मुदितास्तदा ।चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ॥
- 37आस्थाय प्रययौ श्रीमान् सपरिच्छदः ।सा प्रयाता महासेना गजवाजिरथाकुला ॥
- 38दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ।वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः । परवेलायां गिरिष्वपि नदीषु च ॥
- 39सा सम्प्रहृष्टद्विजवाजियोधावित्रासयन्ती मृगपक्षिसङ्घान् ।महद्वनं तत्प्रतिगाहमानारराज सेना तत्र ॥