Vālmīki Rāmāyaṇa · Rāma’s Consolation
Tap a verse for its meaning
- 1ततः पुरुषसिंहानां वृतानां तैः ।शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥
- 2रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥
- 3तूष्णीं ते समुपासीनाः न कश्चित्किञ्चिदब्रवीत् ।भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥
- 4सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥
- 5महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे ।दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥
- 6गतिं खर इवाश्वस्य व पतत्रिणः ।अनुगन्तुं न शक्तिर्मे गतिं तव ॥
- 7सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।राम तेन तु दुर्जीवं यः परानुपजीवति ॥
- 8यथा तु पुरुषेण विवर्धितः ।ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥
- 9स यथा पुष्पितो भूत्वा न विदर्शयेत् ।स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥
- 10एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।यदि त्वमस्मान् वृषभो भृत्यान्न शाधि हि ॥
- 11श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥
- 12तवानुयाने मत्ता नर्दन्तु ।अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥
- 13तस्य साध्वित्यमन्यन्त नागरा ।भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥
- 14तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।रामः भरतं समाश्वासयदात्मवान् ॥
- 15नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः ।इतश्चेतरतश्चैनं परिकर्षति ॥
- 16सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥
- 17यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।एवं नरस्य जातस्य नान्यत्र ॥
- 18यथाऽगारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति ।तथैव सीदन्ति नराः ॥
- 19अत्येति या तु सा न प्रतिनिवर्तते ।यात्येव पूर्णा समुद्रमुदकाकुलम् ॥
- 20गच्छन्ति सर्वेषां प्राणिनामिह । क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥
- 21आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥
- 22सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥
- 23गात्रेषु प्राप्ताः श्वेताश्चैव शिरोरुहाः । पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥
- 24नन्दन्त्युदितादित्ये नन्दन्त्यस्तमिते रवौ ।आत्मनो नावबुध्यन्ते मनुष्या ॥
- 25हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।ऋतूनां परिवर्तेन प्राणिनां ॥
- 26यथा काष्ठं च काष्ठं च समेयातां ।समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥
- 27एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च ।समेत्य व्यवधावन्ति ध्रुवो ह्येषां ॥
- 28नात्र कश्चिद्यथाभावं समभिवर्तते ।तेन तस्मिन्न सामर्थ्यं स्त्यनुशोचतः ॥
- 29यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् स्थितः ।अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥
- 30एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।तमापन्नः कथं शोचेद्यस्य नास्ति ॥
- 31वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः । सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥
- 32स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥
- 33भृत्यानां सम्यक् प्रजानां ।अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः ॥
- 34कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः ।स्वर्गं प्राप्तः पिता नः पृथिवीपतिः ॥
- 35इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य ।उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥
- 36आयुरुत्तममासाद्य भोगानपि च ।स न शोच्यः पिता तातः स्वर्गतः सताम् ॥
- 37स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।दैवीमृद्धिमनुप्राप्तो ॥
- 38तं तु नैवंविधः कश्चित् शोचितुमर्हति ।तद्विधो यद्विधश्चापि बुद्धिमत्तरः ॥
- 39एते बहुविधाः शोका तथा ।वर्जनीया हि सर्वावस्थासु धीमता ॥
- 40स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।तथा पित्रा नियुक्तोऽसि वशिना ॥
- 41यत्राहमपि तेनैव नियुक्तः ।तत्रैवाहं करिष्यामि पितुरार्य्यस्य ॥
- 42न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।तत् त्वयाऽपि सदा मान्यं स वै बन्धुस्स नः पिता ॥
- 43तद्वचः पितुरेवाहं सम्मतं ।कर्मणा पालयिष्यामि राघव ॥
- 44धार्मिकेणानृशंसेन नरेण गुरुवर्तिना ।भवितव्यं परलोकं जिगीषता ॥
- 45आत्मानमनुतिष्ठ त्वं ।निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥
- 46इत्येवमुक्त्वा वचनं पितुर्निदेशप्रतिपालनार्थम् ।यवीयसं भ्रातरमर्थवच्चप्रभुर्मुहूर्ता रामः ॥