Leave

Vālmīki Rāmāyaṇa · Ayodhyā in Desolation

Tap a verse for its meaning

  1. 1
    स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।अयोध्यां क्षिप्रं प्रविवेश महायशाः ॥
  2. 2
    बिडालोलूकचरितामालीननरवारणाम् ।तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥
  3. 3
    राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥
  4. 4
    अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् ।लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥
  5. 5
    विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् ।हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥
  6. 6
    विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् ।हतप्रवीरामापन्नां चमूमिव महाहवे ॥
  7. 7
    सफेना सस्वना भूत्वा समुत्थिताम् ।प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥
  8. 8
    त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥
  9. 9
    गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम् । परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥
  10. 10
    प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥
  11. 11
    सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥
  12. 12
    पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥
  13. 13
    सम्मूढनिगमां स्तब्धां सङ्क्षिप्तविपणापणाम् ।प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥
  14. 14
    क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् ।हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥
  15. 15
    वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥
  16. 16
    विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥
  17. 17
    सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥
  18. 18
    शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ।प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥
  19. 19
    पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥
  20. 20
    प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥
  21. 21
    भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः ।वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥
  22. 22
    किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते ।यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥
  23. 23
    वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः ।धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥
  24. 24
    यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः ।प्रमत्तगजनादश्च महांश्च रथनिस्वनः ।नेदानीं श्रूयते पुर्यामस्यां ॥
  25. 25
    चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः ।गते हि तरुणाः सन्तप्ता नोपभुञ्जते ॥
  26. 26
    बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः ।नोत्सवाः सम्प्रवर्तन्ते पुरे ॥
  27. 27
    सह नूनं मम पुरस्यास्यद्युतिर्गता ।न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥
  28. 28
    कदा नु खलु मे महोत्सव इवागतः ।जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥
  29. 29
    तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।सम्पतद्भिरयोध्यायां नाभिभान्ति ॥
  30. 30
    एवं बहुविधं जल्पन् विवेश वसतिं ।तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥
  31. 31
    तदा तदन्तःपुरमुज्झितप्रभम्सुरैरिवोत्सृष्टमभास्करं दिनम् ।निरीक्ष्य सर्वन्तु विविक्तमात्मवान्मुमोच बाष्पं सुदुःखितः ॥