Leave

Vālmīki Rāmāyaṇa · The Fear of the Ascetics

Tap a verse for its meaning

  1. 1
    प्रतिप्रयाते भरते वसन् राम ।लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥
  2. 2
    ये तत्र पुरस्तात्तापसाश्रमे ।राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥
  3. 3
    नयनैर्भुकुटीभिश्च रामं निर्दिश्य ।अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥
  4. 4
    तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः ।कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः ॥
  5. 5
    न कच्चि किञ्चित्पूर्ववृत्तमिदं मयि ।दृश्यते विकृतं येन तपस्विनः ॥
  6. 6
    प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥
  7. 7
    कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि ।प्रमदाभ्युचितां वृत्तिं युक्तं न वर्तते ॥
  8. 8
    अथर्षिर्जरया वृद्धस्तपसा च जरां गतः ।वेपमान इवोवाच रामं ॥
  9. 9
    कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा ।चलनं वैदेह्यास्तपस्विषु विशेषतः ॥
  10. 10
    त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।रक्षोभ्यस्तेन कथयन्ति मिथः कथाः ॥
  11. 11
    रावणावरजः कश्चित् नामेह ।उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥
  12. 12
    धृष्टश्च जितकाशी च पुरुषादकः ।अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥
  13. 13
    त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।तदाप्रभृति रक्षांसि विप्रकुर्वन्ति ॥
  14. 14
    दर्शयन्ति हि क्रूरैर्भीषणकैरपि ।नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ॥
  15. 15
    अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् ।प्रतिघ्नन्त्यपरान् क्षिप्रमनार्याः पुरतः स्थिताः ॥
  16. 16
    तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः ॥
  17. 17
    अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥
  18. 18
    तैर्दुरात्मभिरामृष्टानाश्रमान् ।गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्यमाम् ॥
  19. 19
    तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥
  20. 20
    बहुमूलफलं चित्रमविदूरादितो वनम् ।पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥
  21. 21
    खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते ।सहास्माभिरितो यदि बुद्धिः प्रवर्तते ॥
  22. 22
    सन्देहो नित्यं यत्तस्य ।समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ॥
  23. 23
    इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।न शशाकोत्तरैर्वाक्यैरवरोद्धुं ॥
  24. 24
    समापृच्छ्य समाधाय च राघवम् ।स जगामाश्रमं त्यक्त्वा कुलैः सह ॥
  25. 25
    रामः संसाध्य त्वृषिगणमनुगमनात्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थःपुण्यं वासाय स्वनिलयमुपसम्पेदे ॥
  26. 26
    आश्रमं त्वृषिविरहितं प्रभुःक्षणमपि न विजहौ स राघवः ।राघवं हि सततमनुगताःतापसाश्चार्षचरितधृतगुणाः ॥