Vālmīki Rāmāyaṇa · Rāma’s Delirium in the Empty Forest
Tap a verse for its meaning
- 1सीतामपश्यन् । महाबाहू रामः कमललोचनः ॥
- 2पश्यन्निव स तां सीतामपश्य ।उवाच राघवो वाक्यं ॥
- 3त्वमशोकस्य शाखाभिः पुष्पप्रियतया ।आवृणोषि शरीरं ते मम ॥
- 4कदल्या संवृतावुभौ ।ऊरू पश्यामि ते देवि नासि शक्ता ॥
- 5कर्णिकारवनं हसन्ती देवि सेवसे ।अलं ते परिहासेन मम वै ॥
- 6किं सीते मे प्रिये ।अयं स परिहासोऽपि साधु देवि न रोचते ॥
- 7विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते ।अवगच्छामि ते शीलं परिहासप्रियं प्रिये ॥
- 8आगच्छ त्वं ।सुव्यक्तं राक्षसैः सीता भक्षिता वा हृताऽपि वा ॥
- 9न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण ।एतानि मृगयूथानि लक्ष्मण ॥
- 10शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः ।हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि ॥
- 11हा त्वया देवी सा भविष्यति ।सीतया सह निर्यातो विना सीतामुपागतः ॥
- 12कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः ।निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ॥
- 13कातरत्वं प्रकाशं हि मे ।निवृत्तवनवासश्च जनकं मिथिलाधिपम् ॥
- 14कुशलं कथं शक्ष्ये निरीक्षितुम् । नूनं मां दृष्ट्वा विरहितं तया ॥
- 15सन्तप्तो वशमेष्यति ।अथवा न गमिष्यामि पुरीं भरतपालिताम् ॥
- 16सीतया हीनः शून्य एव मतो मम ।मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् ॥
- 17न त्वहं तां विना सीतां जीवेयं हि कथञ्चन । भरतो वाच्यो मद्वचनात्त्वया ॥
- 18अनुज्ञातोऽसि रामेण पालयेति ।अम्बा च मम कैकेयी च त्वया विभो ॥
- 19च यथान्यायमभिवाद्या ममाज्ञया । प्रयत्नेन भवता सूक्तकारिणा ॥
- 20सीतायाश्च विनाशोऽयं मम चामित्रकर्शन ।विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ॥
- 21इति विलपति सुदीनेवनमुपगम्य तया विना सुकेश्या ।भयविकलमुखस्तु लक्ष्मणोऽपिव्यथितमना भृशमातुरो बभूव ॥