Leave

Vālmīki Rāmāyaṇa · Rāma's Lamentation

Tap a verse for its meaning

  1. 1
    स प्रियया विहीनःकामेन शोकेन च पीड्यमानः ।विषादयन् भ्रातरमार्तरूपोभूयो विषादं प्रविवेश तीव्रम् ॥
  2. 2
    स लक्ष्मणं शोकवशाभिपन्नंशोके निमग्नो विपुले तु रामः ।उवाच वाक्यं व्यसनानुरूप--मुष्णं विनिःश्वस्य रुदन् सशोकम् ॥
  3. 3
    न मद्विधो मन्ये द्वितीयोऽस्ति वसुन्धरायाम् ।शोकेन शोको हि मामेति भिन्दन् हृदयं मनश्च ॥
  4. 4
    पूर्वं मया नूनमभीप्सितानिपापानि कर्माण्यसकृत्कृतानि ।तत्रायमद्यापतितो विपाकोदुःखेन दुःखं यदहं विशामि ॥
  5. 5
    स्वजनैर्वियोगःपितुर्विनाशो जननीवियोगः ।सर्वाणि मे लक्ष्मण शोकवेग--मापूरयन्ति प्रविचिन्तितानि ॥
  6. 6
    सर्वं तु दुःखं मम लक्ष्मणेदंशान्तं शरीरे वनमेत्य शून्यम् ।सीतावियोगात् पुनरप्युदीर्णंकाष्ठैरिवाग्निः सहसा प्रदीप्तः ॥
  7. 7
    सा नूनमार्या मम राक्षसेनबलाद्धृता खं समुपेत्य भीरुः ।अपस्वरं सस्वरविप्रलापाभयेन विक्रन्दितवत्यभीक्ष्णम् ॥
  8. 8
    तौ प्रियदर्शनस्यसदोचितावुत्तमचन्दनस्य ।वृत्तौ स्तनौ नूनं प्रियाया मम नाभिभातः ॥
  9. 9
    तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापंतस्या मुखं कुञ्चितकेशभारम् ।रक्षोवशं नूनमुपागतायान भ्राजते यथेन्दुः ॥
  10. 10
    तां हारपाशस्य सदोचितायाग्रीवां प्रियाया मम ।रक्षांसि नूनं परिपीतवन्तिविभिद्य शून्ये ॥
  11. 11
    मया विहीना विजने वने यारक्षोभिराहृत्य विकृष्यमाणा ।नूनं विनादं दीनासा मुक्तवत्यायतकान्तनेत्रा ॥
  12. 12
    अस्मिन् मया सार्धमुदारशीला पूर्वमुपोपविष्टा ।कान्तस्मिता लक्ष्मण जातहासात्वामाह सीता बहुवाक्यजातम् ॥
  13. 13
    गोदावरीयं प्रिया प्रियाया मम नित्यकालम् ।अप्यत्र गच्छेदिति चिन्तयामि यति हि सा कदाचित् ॥
  14. 14
    पद्मविशालनेत्रापद्मानि वानेतुमभिप्रयाता ।तदप्ययुक्तं न हि सा कदाचि--न्मया विना गच्छति ॥
  15. 15
    कामं त्विदं पुष्पितवृक्षषण्डंनानाविधैः पक्षिगणैरुपेतम् ।वनं प्रयाता नु तदप्ययुक्त--मेकाकिनी साऽतिबिभेति भीरुः ॥
  16. 16
    आदित्य भो लोकस्य ।मम प्रिया सा क्व गता हृता वाशंसस्व मे शोकवशस्य नित्यम् ॥
  17. 17
    लोकेषु सर्वेषु च नास्ति किञ्चि--द्यत्ते न नित्यं विदितं भवेत्तत् ।शंसस्व वायो कुलशालिनीं तां पथि वर्तते वा ॥
  18. 18
    इतीव तं शोकविधेयदेहंरामं विसञ्ज्ञं विलपन्तमेवम् ।उवाच सौमित्रिरदीनसत्त्वोन्याये स्थितः कालयुतं च वाक्यम् ॥
  19. 19
    शोकं विमुञ्चार्य धृतिं भजस्वसोत्साहता चास्तु विमार्गणेऽस्याः ।उत्साहवन्तो हि नरा न लोकेसीदन्ति कर्मस्वतिदुष्करेषु ॥
  20. 20
    इतीव सौमित्रिमुदग्रपौरुषंब्रुवन्तमार्तो ।न चिन्तयामास धृतिं विमुक्तवान्पुनश्च दुःखं महदभ्युपागमत् ॥