Vālmīki Rāmāyaṇa · The Promise of Friendship
Tap a verse for its meaning
- 1। ॥
- 2न जाने निलयं तस्य सर्वथा पापरक्षसः ।सामर्थ्यं विक्रमं वाऽपि वा कुलम् ॥
- 3सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम ।करिष्यामि तथा यत्नं यथा प्राप्यसि ॥
- 4रावणं सगणं हत्वा परितोष्यात्मपौरुषम् ।तथाऽस्मि कर्ता न चिराद्यथा प्रीतो भविष्यसि ॥
- 5अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर ।त्वद्विधानामसदृशमीदृशं विद्धि ॥
- 6मयाऽपि व्यसनं प्राप्तं भार्याहरणजं महत् ।न चाहमेवं शोचामि न च धैर्यं परित्यजे ॥
- 7नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ।महात्मा च विनीतश्च किं पुन भवान् ॥
- 8बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि ।मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥
- 9व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तके ।विमृशन् वै स्वया बुद्ध्या धृतिमा ॥
- 10बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥
- 11एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये ।पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥
- 12ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ।तेजश्च तेषां न त्वं शोचितुमर्हसि ॥
- 13शोकेनाभिप्रपन्नस्य जीविते चापि संशयः ।स शोकं त्यज धैर्यमाश्रय केवलम् ॥
- 14हितं ब्रूमि ते ।वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥
- 15मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः ।मुखमश्रुपरिक्लिन्नं प्रमार्जयत् ॥
- 16प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात् प्रभुः । सुग्रीवमिदं वचनमब्रवीत् ॥
- 17कर्तव्यं यद्वयस्येन च हितेन च ।अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥
- 18एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे ।दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः ॥
- 19किं तु यत्नस्त्वया कार्यो मैथिल्याः ।राक्षसस्य च रावणस्य दुरात्मनः ॥
- 20मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् ।वर्षास्विव च सर्वं सम्पद्यते मयि ॥
- 21मया च यदिदं वाक्यमभिमानात्समीरितम् ।तत्त्वया तत्त्वमित्युपधार्यताम् ॥
- 22अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।एतत्ते प्रतिजानामि सत्येनैव च ते ॥
- 23ततः सुग्रीवो वानरैः सह ।राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥
- 24एवमेकान्तसम्पृक्तौ ततस्तौ ।उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम् ॥
- 25वचो निशम्यहरिर्नराणामृषभस्य तस्य ।कृतं स मेने हरिवीरमुख्य--स्तदा स्वकार्यं हृदयेन विद्वान् ॥