Vālmīki Rāmāyaṇa · The Seven Trees and the First Duel
Tap a verse for its meaning
- 1एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥
- 2स गृहीत्वा धनुर्घोरं शरमेकं च ।सालमुद्दिश्य चिक्षेप पूरयन् दिशः ॥
- 3स विसृष्टो बलवता बाणः ।भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह ॥
- 4प्रविष्टश्च धरां भित्त्वा महाजवः ।निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ॥
- 5तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् ।रामस्य शरवेगेन विस्मयं परमं गतः ॥
- 6स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः ।सुग्रीवः परमप्रीतो राघवाय ॥
- 7इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ।रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥
- 8सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः ।समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥
- 9येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।बाणेनैकेन स्थाता ते को रणाग्रतः ॥
- 10अद्य मे विगतः शोकः प्रीतिरद्यः परा मम ।सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥
- 11तमद्यैव प्रियार्थं मे वैरिणं ।वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥
- 12ततो रामः परिष्वज्य सुग्रीवं ।प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥
- 13अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ।गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥
- 14सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।वृक्षैरात्मानमावृत्य व्यतिष्ठन् ॥
- 15सुग्रीवो व्यनदद्घोरं वालिनो ।गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥
- 16ननाद सुमहानादं पूरयन्वै नभः स्थलम् ।तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली ॥
- 17निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ।ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ॥
- 18गगने ग्रहयोर्घोरं ।तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ॥
- 19जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ।ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु ॥
- 20अन्योन्यसदृशौ वीरावुभौ ।यन्नावगच्छत् सुग्रीवं वालिनं वाऽपि राघवः ॥
- 21ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ।एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ॥
- 22अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे ।क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः ॥
- 23वालिनाऽभिद्रुतः क्रोधात् प्रविवेश महावनम् ।तं प्रविष्टं वनं दृष्ट्वा वाली ॥
- 24मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ।राघवोऽपि सह भ्रात्रा सह चैव ॥
- 25तदेव वनमागच्छत् सुग्रीवो यत्र वानरः ।तं समीक्ष्यागतं रामं सुग्रीवः ॥
- 26दीनमुवाचेदं वसुधामवलोकयन् ।आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ॥
- 27घातयित्वा च किमिदानीं त्वया कृतम् ।तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ॥
- 28ततो नाहमितो व्रजे ।तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ॥
- 29करुणं दीनया वाचा राघवः पुनरब्रवीत् ।सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् ॥
- 30कारणं येन बाणोऽयं न मया स विसर्जितः ।अलङ्कारेण वेषेण प्रमाणेन गतेन च ॥
- 31त्वं च सुग्रीव वाली च स्थः परस्परम् ।स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ॥
- 32विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ।ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥
- 33नोत्सृजामि महावेगं शरं ।जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः ॥
- 34मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ।त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया ॥
- 35मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ।दत्ताभयवधो नाम पातकं महदुच्यते ॥
- 36अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ।त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् ॥
- 37तस्माद्युध्यस्व भूयस्त्वं निश्शङ्को ।अस्मिन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ॥
- 38निरस्तमिषुणैकेन वेष्टमानं महीतले ।अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ॥
- 39येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ।गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ॥
- 40कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ।ततो गरितटे जातामुत्पाट्य ॥
- 41लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ।स तया शुशुभे श्रीमान् लतया ॥
- 42मालयेव बलाकानां ससन्ध्य इव ।विभ्राजमानो वपुषा रामवाक्यसमाहितः ।जगाम सह रामेण किष्किन्धां वालिपालिताम् ॥