Vālmīki Rāmāyaṇa · Tārā’s Counsel
Tap a verse for its meaning
- 1अथ तस्य निनादं तु सुग्रीवस्य महात्मनः ।शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥
- 2श्रुत्वा तु तस्य निनदं ।मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥
- 3स तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः ।उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥
- 4वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः ।भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥
- 5शब्दं दुर्मर्षणं श्रुत्वा ततो हरिः ।वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥
- 6तं तु तारा स्नेहाद्दर्शितसौहृदा ।उवाच हितोदर्कमिदं वचः ॥
- 7साधु क्रोधमिमं वीर नदीवेगमिवागतम् ।शयनादुत्थितः काल्यं त्यज भुक्तामिव ॥
- 8काल्यमेतेन सङ्ग्रामं करिष्यसि ।वीर ते शत्रुबाहुल्यं वा न विद्यते ॥
- 9सहसा तव निष्क्रामो मम तावन्न रोचते ।श्रूयतां चाभिधास्यामि यन्निमित्तं ॥
- 10पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि ।निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥
- 11त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।इहैत्य पुनराह्वानं जनयतीव मे ॥
- 12दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः ।निनादस्य च संरम्भो नैतदल्पं हि कारणम् ॥
- 13नासहायमहं मन्ये सुग्रीवं तमिहागतम् ।अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥
- 14प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः । सुग्रीवः सह नेष्यति ॥
- 15पूर्वमेव मया वीर श्रुतं कथयतो वचः ।अङ्गदस्य वक्ष्यामि त्वा ॥
- 16अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः ।प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता ॥
- 17पुत्रो शूरो समरदुर्जयौ ।इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥
- 18सुग्रीवप्रियकामार्थं प्राप्तौ तत्र ।तव भ्रातुर्हि विख्यातः सहायो ॥
- 19रामः युगान्ताग्निरिवोत्थितः । साधूनामापन्नानां परा गतिः ॥
- 20आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ।ज्ञानविज्ञानसम्पन्नो पितुः ॥
- 21धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ।तत्क्षमं न विरोधस्ते सह तेन महात्मना ॥
- 22दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ।शूर वक्ष्यामि ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम् ॥
- 23श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् । सुग्रीवं तूर्णं साध्वभिषेचय ॥
- 24विग्रहं मा कृथा वीर भ्रात्रा राजन् ।अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ॥
- 25सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः ।लालनीयो हि ते भ्राता यवीयानेष वानरः ॥
- 26तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ।न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन ॥
- 27कुरुष्व ।वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु ॥
- 28सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ।भ्रातुः सौहृदमालम्ब नान्या गतिरिहास्ति ते ॥
- 29यदि ते मत्प्रियं कार्यं यदि चावैषि मां ।याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥
- 30प्रसीद पथ्यं शृणु जल्पितं हि मेन रोषमेवानुविधातुमर्हसि ।क्षमो हि ते न विग्रहः शक्रसमानतेजसा ॥
- 31तदा हि तारा हितमेव वाक्यंतं वालिनं पथ्यमिदं बभाषे ।न रोचते तद्वचनं हि तस्य ॥