Leave

Vālmīki Rāmāyaṇa · Tārā’s Lament

Tap a verse for its meaning

  1. 1
    ततः समुपजिघ्रन्ती तन्मुखम् ।पतिं लोकाच्च्युतं मृतं वचनमब्रवीत् ॥
  2. 2
    शेषे त्वं विषमे दुःखमनुक्त्वा वचनं मम ।उपलोपचिते सुदुःखे ॥
  3. 3
    मत्तः प्रियतरा नूनं मही तव ।शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥
  4. 4
    वशं प्राप्तो विधिरेष भवत्यहो ।सुग्रीव एव विक्रान्तो वीर ॥
  5. 5
    ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते ।एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः ॥
  6. 6
    मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ।इदं तद्वीरशयनं यत्र शेषे हतो युधि ॥
  7. 7
    शायिता निहता यत्र त्वयैव रिपवः पुरा । प्रिययुद्ध मम प्रिय ॥
  8. 8
    मामनाथां विहायैकां गतस्त्वमसि ।शूराय न प्रदातव्या कन्या खलु ॥
  9. 9
    शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ।अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥
  10. 10
    अगाधे च निमग्नाऽस्मि विपुले ।अश्मसारमयं नूनमिदं मे हृदयं दृढम् ॥
  11. 11
    भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ।सुहृच्चैव हि भर्ता च प्रकृत्या मम च प्रियः ॥
  12. 12
    आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः । तु या नारी कामं भवतु पुत्रिणी ॥
  13. 13
    धनधान्यैः सुपूर्णापि विधवेत्युच्यते जनैः ।स्वगात्रप्रभवे वीर शेषे ॥
  14. 14
    कृमिरागपरिस्तोमे त्वमात्मशयने यथा ।रेणुशोणितसंवीतं गात्रं तव समन्ततः ॥
  15. 15
    परिरब्धुं न शक्नोमि भुजाभ्यां ।कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे ॥
  16. 16
    यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ।शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ॥
  17. 17
    वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ।उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ॥
  18. 18
    गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ।तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥
  19. 19
    अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ।पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ॥
  20. 20
    ताम्रगैरिकसम्पृक्ता धारा इव ।अवकीर्णं विमार्जन्ती भर्तारं ॥
  21. 21
    आस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ।रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ॥
  22. 22
    उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ।अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ॥
  23. 23
    सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ।बालसूर्योदयतनुं प्रयान्तं ॥
  24. 24
    अभिवादय राजानं पितरं पुत्र मानदम् ।एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ॥
  25. 25
    भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ।अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ॥
  26. 26
    पुत्रेति किमर्थं नाभिभाषसे ।अहं पुत्रसहाया त्वामुपासे ॥
  27. 27
    सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ।इष्ट्वा रामप्रहरणाम्भसि ॥
  28. 28
    अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ।या दत्ता तव तुष्टेन सम्युगे ॥
  29. 29
    शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ।राजश्रीर्न जहाति त्वां गतासुमपि मानद ।सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥
  30. 30
    न मे वचः पथ्यमिदं त्वया कृतंन चास्मि शक्ता विनिवारणे तव ।हता सपुत्राऽस्मि हतेन सम्युगेसह त्वया श्रीर्विजहाति मामिह ॥