Vālmīki Rāmāyaṇa · The Grief of Sugrīva and Tārā
Tap a verse for its meaning
- 1तां चाश्रुवेगेन दुरासदेनत्वभिप्लुतां ।पश्यंस्तदा वाल्यनुजस्तरस्वीभ्रातुर्वधेनाप्रतिमेन तेपे ॥
- 2स मुखेन वीक्ष्यक्षणेन निर्विण्णमना ।जगाम रामस्य शनैः समीपंभृत्यैर्वृतः सम्परिदूयमानः ॥
- 3स तं समासाद्य गृहीतचाप--मुदात्तमाशीविषतुल्यबाणम् ।यशस्विनं लक्षणलक्षिताङ्ग--मवस्थितं राघवमित्युवाच ॥
- 4यथाप्रतिज्ञातमिदं नरेन्द्रकृतं त्वया दृष्टफलं च कर्म ।ममाद्य भोगेषु नरेन्द्रपुत्रमनो निवृत्तं सह जीवितेन ॥
- 5अस्यां महिष्यां तु भृशं रुदन्त्यांपुरे च विक्रोशति दुःखतप्ते ।हतेऽग्रजे संशयितेऽङ्गदे चन रमते मनो मे ॥
- 6क्रोधादमर्षादतिविप्रधर्षा--द्भ्रातुर्वधो मेऽनुमतः पुरस्तात् ।हते त्विदानीं हरियूथपेऽस्मिन्सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥
- 7श्रेयोऽद्य मन्ये मम तस्मिन्निवासश्चिरमृश्यमूके ।यथा तथा वर्तयतः स्ववृत्त्यानेमं निहत्य त्रिदिवस्य लाभः ॥
- 8न त्वां जिघांसामि चरेति यन्मा--मयं मतिमानुवाच ।तस्यैव तद्राम वचोऽनुरूप--मिदं पुनः कर्म च मेऽनुरूपम् ॥
- 9भ्राता कथं नाम भ्रातुर्वधं राघव रोचयेत ।राज्यस्य दुःखस्य च वीर सारंन चिन्तयन् सन् ॥
- 10वधो हि मे मतो नासी ।ममासीणहारी व्यतिक्रमः ॥
- 11मुहूर्तं ।सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥
- 12भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ।मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥
- 13अचिन्तनीयं परिवर्जनीय--मनीप्सनीयं स्वनवेक्षणीयम् ।प्राप्तोऽस्मि पाप्मानमिमं भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ॥
- 14पाप्मानमिन्द्रस्य मही जलं चवृक्षाश्च कामं जगृहुः स्त्रियश्च ।को नाम पाप्मानमिमं क्षमेत प्रतिपत्तुमिच्छन् ॥
- 15नार्हामि सम्मानमिमं प्रजानांन यौवराज्यं कुत एव राज्यम् ।अधर्मयुक्तं कुलनाशयुक्त--मेवंविधं राघव कर्म कृत्वा ॥
- 16पापस्य कर्ताऽस्मि क्षुद्रस्य लोकापकृतस्य चैव ।शोको महान् मामभिवर्ततेऽयंवृष्टेर्यथा निम्नमिवाम्बुवेगः ॥
- 17सन्तापहस्ताक्षिशिरोविषाणः ।एनोमयो मामभिहन्ति हस्तीदृप्तो नदीकूलमिव प्रवृद्धः ॥
- 18अंहो बतेदं नृवराविषह्यनिवर्तते मे हृदि साधु वृत्तम् ।विवर्णमग्नौ परितप्यमानंकिट्टं यथा राघव ॥
- 19महाबलानां हरियूथपाना--मिदं कुलं राघव मन्निमित्तम् ।अस्याङ्गदस्यापि च शोकतापा--दर्धस्थितप्राणमितीव मन्ये ॥
- 20सुतः सुलभ्यः सुजनः सुवश्यःकुतः सदृशोऽङ्गदेन ।न चापि विद्येत स वीर देशोयस्मिन्भवेत् ॥
- 21यद्यङ्गदो वीरवरार्ह जीवे--ज्जीवेच्च माता परिपालनार्थम् ।विना तु पुत्रं न जीवेदिति निश्चितं मे ॥
- 22सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निंभ्रात्रा च पुत्रेण च सख्यमिच्छन् ।इमे विचेष्यन्ति सीतां निदेशे तव वर्तमानाः ॥
- 23कृत्स्नं तु ते सेत्स्यति कार्यमेत--न्मय्यप्रतीते मनुजेन्द्रपुत्र ।कुलस्य हन्तारमजीवनार्हंरामानुजानीहि कृतागसं माम् ॥
- 24इत्येवमार्तस्य रघुप्रवीरःश्रुत्वा वचो वाल्यनुजस्य तस्य । रामो मुहूर्तं विमना बभूव ॥
- 25तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः ।रामो रुदन्तीं व्यसने निमग्नांसमुत्सुकः सोऽथ ददर्श ताराम् ॥
- 26तां चारुनेत्रां कपिसिंहनाथंपतिं समाश्लिष्य तदा शयानाम् ।उत्थापयामासुरदीनसत्त्वांमन्त्रिप्रधानाः कपिवीरपत्नीम् ॥
- 27सा विस्फुरन्ती परिरभ्यमाणाभर्तुः सकाशादपनीयमाना ।ददर्श रामं शरचापपाणिं सूर्यमिव ज्वलन्तम् ॥
- 28सुसंवृतं पार्थिवलक्षणैश्चतं चारुनेत्रं मृगशाबनेत्रा ।अदृष्टपूर्वं पुरुषप्रधान--मयं स काकुत्स्थ इति प्रजज्ञे ॥
- 29तस्येन्द्रकल्पस्य दुरासदस्यमहानुभावस्य समीपमार्या ।आर्ताऽतितूर्णं व्यसनाभिपन्नाजगाम तारा ॥
- 30सा तं समासाद्य शोकेन सम्भ्रान्तशरीरभावा ।मनस्विनी वाक्यमुवाच तारारामं ॥
- 31त्वमप्रमेयश्च दुरासदश्चजितेन्द्रियश्चोत्तमधार्मिकश्च ।अक्षय्यकीर्तिश्च विचक्षणश्च क्षतजोपमाक्षः ॥
- 32त्वमात्तबाणासनबाणपाणि--र्महाबलः ।मनुष्यदेहाभ्युदयं विहाय युक्तः ॥
- 33येनैकबाणेन हतः प्रियो मेतेनेव मां त्वं जहि सायकेन ।हता गमिष्यामि समीपमस्यन मामृते राम रमेत वाली ॥
- 34स्वर्गेऽपि समेत्य सम्प्रेक्ष्य च मामपश्यन् ।न ह्येष उच्चावचताम्रचूडाविचित्रवेषाप्सरसोऽभजिष्यत् ॥
- 35स्वर्गेऽपि शोकं च विवर्णतां चमया विना प्राप्स्यति वीर वाली ।रम्ये नगेन्द्रस्य तटावकाशेविदेहकन्यारहितो यथा त्वम् ॥
- 36त्वं वेत्थ यावप्राप्नोति पुरुषः कुमारः ।तत्त्वं प्रजानन् जहि मां न वालीदुःखं ममादर्शनजं भजेत ॥
- 37यच्चापि मन्येत भवान्महात्मास्त्रीघातदोषो न भवेत्तु मह्यम् ।ति च मां जहि त्वंन स्त्रीवधः स्यान्मनुजेन्द्रपुत्र ॥
- 38शास्त्रप्रयोगाद्विविधाच्च वेदा--दात्मा ह्यनन्यः पुरुषस्य ।दारप्रदानान्न हि दानमन्य--त्प्रदृश्यते ज्ञानवतां हि लोके ॥
- 39त्वं चापि मां तस्य मम प्रियस्यप्रदास्यसे वीर ।अनेन दानेन न लप्स्यसे त्व--मधर्मयोगं मम वीर घातात् ॥
- 40आर्तामनाथामपनीयमाना--मेवंविधामर्हसि मां निहन्तुम् ।अहं हि मातङ्गविलासगामिनाप्लवङ्गमानामृषभेण धीमता ॥
- 41विना वरार्होत्तमचिरं न शक्ष्यामि नरेन्द्र जीवितुम् ।इत्येवमुक्तस्तु विभुर्महात्मातारां समाश्वास्य हितं बभाषे ॥
- 42मा विमतिं कुरुष्वलोको हि सर्वो विहितो ।तं चैव सर्वं सुखदुःखयोगंलोकोऽब्रवीत्तेन कृतं विधात्रा ॥
- 43त्रयो हि लोका विहितं विधानंनातिक्रमान्ते वशगा हि तस्य ।प्रीतिं परां प्राप्स्यसि तां तथैवपुत्रस्तु ते प्राप्स्यति ॥
- 44धात्रा विधानं विहितं तथैवन परिदेवयन्ति ।आश्वासिता तेन तु राघवेणप्रभावयुक्तेन परन्तपेन ।सा ध्वनता मुखेनसुवेषरूपा विरराम तारा ॥