Vālmīki Rāmāyaṇa · The Path to the Southern Sea
Tap a verse for its meaning
- 1ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥
- 2नीलमग्निसुतं चैव हनुमन्तं च वानरम् ।पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥
- 3सुहोत्रं च शरारिं च शरगुल्मं तथैव च ।गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥
- 4मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ।उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥
- 5रान् वीरः ।वेगविक्रमसम्पन्नान् सन्दिदेश विशेषवित् ॥
- 6तेषामग्रेसरं चैव महद्बलमथाङ्गदम् ।विधाय हरिवीराणामादिश ॥
- 7ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः । कपिमुख्यानां स तेषां तानुदाहरत् ॥
- 8सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥
- 9ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ।वरदां च महाभागां महोरगनिषेविताम् ॥
- 10मेखलामुत्कलां चैव दशार्णनगराण्यपि ।अश्ववन्तीमवन्तीं च सर्वमेवानुपश्यत ॥
- 11विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ॥
- 12अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥
- 13तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् सकेरलान् ।अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥
- 14विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ।सचन्दनवनोद्देशो मार्गितव्यो ॥
- 15ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥
- 16तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ।द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषिसत्तमम् ॥
- 17ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥
- 18सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी ।कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥
- 19ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥
- 20ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् ।आगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥
- 21चित्रनानानगः श्रीमान् पर्वतोत्तमः ।जातरूपमयः श्रीमानवगाढो ॥
- 22नानाविधैर्नगैः सर्वैर्लताभिश्चोपशोभितम् ।देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥
- 23सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोहरम् ।तमुपैति सदा पर्वसु पर्वसु ॥
- 24द्वीपस्तस्यापरे पारे ।अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ॥
- 25तत्र सर्वात्मना मार्गितव्या विशेषतः ।स हि देशस्तु वध्यस्य दुरात्मनः ॥
- 26राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः । मध्ये तस्य तु राक्षसी ॥
- 27अङ्गारकेति विख्याता छायामाक्षिप्य भोजनी ।एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः ॥
- 28मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ।तमतिक्रम्य लक्ष्मीवान् समुद्रे ॥
- 29गिरिः पुष्पितको नाम सिद्धचारणसेवितः ।चन्द्रसूर्यांशुसङ्काशः सागराम्बुसमावृतः ॥
- 30भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ।तस्यैवं काञ्चनं शृङ्गं सेवते यं ॥
- 31श्वेतं राजतशृङ्गं च सेवते यं ।न तं पश्यन्ति न नृशंसा न नास्तिकाः ॥
- 32शिरसा शैलं तं विमार्गत वानराः ।तमतिक्रम्य दुर्धर्षाः म पर्वतः ॥
- 33अध्वना दुर्विगाहेन योजनानि ।ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ॥
- 34सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ।तत्र भुक्त्वा वरार्हाणि मूलानि च च ॥
- 35पीत्वा मुख्यानि परं गच्छत वानराः ।तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ॥
- 36अगस्त्यभवनं यत्र निर्मितं ।तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ॥
- 37शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ।तत्र भोगवती नाम पुरी ॥
- 38विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ।रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रै ॥
- 39सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः ।निर्याय मार्गितव्या च सा च ॥
- 40तत्र चानन्तरा देशा ये केचन सुसंवृताः ।तं च देशमतिक्रम्य महानृषभसंस्थितः ॥
- 41सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ।गोशीर्षकं पद्मकं च हरिश्यामं च ॥
- 42दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ।न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ॥
- 43रोहिता नाम गन्धर्वा घोरा रक्षन्ति त ।तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ॥
- 44शैलूषो ग्रामणीः शिग्रुः शुभ्रो बभ्रुस्तथैव च ।रविसोमाग्निवपुषां निवासः ॥
- 45अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।ततः परं न वः सेव्यः सुदारुणः ॥
- 46राजधानी षा कष्टेन तमसा वृता ।एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः ॥
- 47शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ।सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ॥
- 48गतिं विदित्वा सन्निवर्तितुमर्हथ ।यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ॥
- 49मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ।ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ।कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥
- 50अमितबलपराक्रमा भवन्तोविपुलगुणेषु कुलेषु च प्रसूताः ।मनुजपतिसुतां यथा लभध्वंतदधिगुणं पुरुषार्थमारभध्वम् ॥