Leave

Vālmīki Rāmāyaṇa · Auspicious Omens

Tap a verse for its meaning

  1. 1
    तथागतां तां व्यथितामनिन्दितांव्यपेतहर्षां परिदीनमानसाम् ।शुभां शुभानि भेजिरेनरं श्रिया जुष्टमिवोपजीविनः ॥
  2. 2
    तस्याः शुभं वाममरालपक्ष्म--राजीवृतं कृष्णविशालशुक्लम् ।प्रास्पन्दतैकं नयनं मीनाहतं पद्ममिवाभिताम्रम् ॥
  3. 3
    भुजश्च चार्वञ्चितपीनवृत्तःपरार्ध्यकालागरुचन्दनार्हः ।अनुत्तमेनाध्युषितः चिरेण समवेपताशु ॥
  4. 4
    गजेन्द्रहस्तप्रतिमश्च पीन--स्तयोर्द्वयोः संहतयोः सुजातः ।प्रस्पन्दमानः पुनरूरुरस्यारामं पुरस्तात्स्थितमाचचक्षे ॥
  5. 5
    शुभं पुनर्हेमसमानवर्ण--मीषद्रजोध्वस्तमिवामलाक्ष्याः । स्थितायाः शिखराग्रदत्याःकिञ्चित्परिस्रंसत चारुगात्र्याः ॥
  6. 6
    एतैर्निमित्तैरपरैश्च सुभ्रूःसम्बोधिता प्रागपि साधु सिद्धैः ।वातातपक्लान्तमिव प्रनष्टंवर्षेण बीजं ॥
  7. 7
    तस्याः पुनर्बिम्बफलाधरोष्ठंस्वक्षिभ्रुकेशान्तमरालपक्ष्म ।वक्त्रं बभासे सितशुक्लदंष्ट्रंराहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥
  8. 8
    सा व्यपनीततन्द्री हर्षविवृद्धसत्त्वा ।अशोभतार्या वदनेन शुक्लेशीतांशुना रात्रिरिवोदितेन ॥