Leave

Vālmīki Rāmāyaṇa · Hanumān Recounts the Tale of Rāma

Tap a verse for its meaning

  1. 1
    एवं बहुविधां चिन्तां चिन्तयित्वा ।संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥
  2. 2
    राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः ॥
  3. 3
    राजर्षीणां गुणश्रेष्ठ चर्षिभिः समः ।चक्रवर्तिकुले जातः पुरन्दरसमो बले ॥
  4. 4
    अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः ।मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ॥
  5. 5
    पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः ।पृथिव्यां चतुरन्तायां विश्रुतः सुखी ॥
  6. 6
    तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।रामो नाम श्रेष्ठः सर्वधनुष्मताम् ॥
  7. 7
    स्वस्य वृत्तस्य स्वजनस्य च रक्षिता ।रक्षिता जीवलोकस्य धर्मस्य च ॥
  8. 8
    तस्य वृद्धस्य वचनात्पितुः ।सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥
  9. 9
    तेन तत्र मृगयां परिधावता ।राक्षसा निहताः शूरा बहवः ॥
  10. 10
    जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।ततस्त्वमर्षापहृता रावणेन तु ॥
  11. 11
    वञ्चयित्वा वने रामं मायया ।स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ॥
  12. 12
    आससाद वने मित्रं सुग्रीवं नाम वानरम् ।ततः स वालिनं हत्वा रामः ॥
  13. 13
    प्रायच्छत्कपिराज्यं तत्सुग्रीवाय महाबलः ।सुग्रीवेणापि सन्दिष्टा कामरूपिणः ॥
  14. 14
    दिक्षु सर्वासु तां देवीं विचिन्वन्ति ।अहं ॥
  15. 15
    अस्या हेतो सागरं वेगवान्प्लुतः ।यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ॥
  16. 16
    अश्रौषं हं सेयमासादिता मया ।विररामैवमुक्त्वाऽसौ वाचं ॥
  17. 17
    जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता ।ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ॥
  18. 18
    निशम्य सीता वचनं कपेश्चदिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।स्वयं प्रहर्षं परमं जगाम राममनुस्मरन्ती ॥
  19. 19
    सा तिर्यगूर्ध्वं च तथाप्यधस्ता--न्निरीक्षमाणा तमचिन्त्यबुद्धिम् ।ददर्श पिङ्गाधिपतेरमात्यंवातात्मजं सूर्यमिवोदयस्थम् ॥