Vālmīki Rāmāyaṇa · The Sally of Vajradaṃṣṭra
Tap a verse for its meaning
- 1धूम्राक्षं निहतं श्रुत्वा रावणो ।क्रोधेन महताऽऽविष्टो निःश्वसन्नुरगो यथा ॥
- 2दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः ।अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं ॥
- 3गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ।जहि रामं सुग्रीवं वानरैः सह ॥
- 4तथेत्युक्त्वा द्रुततरं ।निर्जगाम बलैः सार्धं बहुभिः परिवारितः ॥
- 5नागैरश्वैः खरैरुष्ट्रैः सम्युक्तः ।पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ॥
- 6ततो विचित्रकेयूरमुकुटैश्च विभूषितः ।तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम् ॥
- 7पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् ।रथं प्रदक्षिणं कृत्वा समारोह ॥
- 8यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ।भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ॥
- 9खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः ।पदातयश्च निर्यान्ति विविधाः ॥
- 10विचित्रवाससः सर्वे दीप्ता ।गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः ॥
- 11ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ।अन्ये लक्षणसम्युक्ताः शूरा रूढा महाबलाः ॥
- 12तद्राक्षसबलं घोरं विप्रस्थितमशोभत । यथा मेघा नर्दमानाः सविद्युतः ॥
- 13निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः ।तेषां निष्क्रममाणानामशुभं समजायत ॥
- 14आकाशाद्विघनात्तीव्रा उल्काश्चाभ्यपतंस्तदा ।वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥
- 15व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ।समापतन्तो योधास्तु प्रास्खलन्भयमोहिताः ॥
- 16एतानौत्पातिकान्दृष्ट्वा वज्रदंष्ट्रो महाबलः ।धैर्यमालम्ब्य तेजस्वी निर्जगाम ॥
- 17तांस्तु निष्क्रमतो दृष्ट्वा वानरा ।प्रणेदुः सुमहानादान्पूरयंश्च दिशो दश ॥
- 18ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ॥
- 19निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ।रुधिरोक्षितसर्वाङ्गा न्यपतन् जगतीतले ॥
- 20केचिदन्योन्यमासाद्य शूराः ।चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ॥
- 21द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः ।श्रूयते सुमहांस्तत्र घोरो ॥
- 22रथनेमिस्वनस्तत्र धनुषश्चापि निःस्वनः ।शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ॥
- 23केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ।तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ॥
- 24जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः ।शिलाभिश्चूर्णिताः केचिद्वानरै ॥
- 25वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन्हरीन् ।चचार लोकसंहारे पाशहस्त इवान्तकः ॥
- 26बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे ।जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः ॥
- 27निघ्नतो राक्षसान्दृष्ट्वा सर्वान्वालिसुतो रणे ।क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥
- 28तान्राक्षसगणान् सर्वान्वृक्षमुद्यम्य वीर्यवान् । सिंहः क्षुद्रमृगानिव ॥
- 29चकार कदनं घोरं ।अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ॥
- 30विभिन्नशिरसः पेतुर्विकृत्ता इव ।रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् ॥
- 31च सञ्छन्ना भूमिर्भयकरी तदा ।हारकेयूरवस्त्रैश्च शस्त्रैश्च समलङ्कृता ॥
- 32भूमिर्भाति रणे तत्र व यथा निशा ।अङ्गदस्य च वेगेन तद्राक्षसबलं महत् । तदा तत्र पवनेनाम्बुदो यथा ॥