Leave

Vālmīki Rāmāyaṇa · The Slaying of Virūpākṣa

Tap a verse for its meaning

  1. 1
    तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥
  2. 2
    रावणस्याप्रसह्यं तं शरसम्पातमेकतः ।न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ॥
  3. 3
    तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।पावकार्चिः समाविष्टा दह्यमाना यथा गजाः ॥
  4. 4
    प्लवङ्गानामनीकानि महाभ्राणीव मारुतः ।स ययौ समरे तस्मिन्विधमन्रावणः शरैः ॥
  5. 5
    । ॥
  6. 6
    सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे ।गुल्मे सुषेणं निक्षिप्य चक्रे युद्धेऽद्भुतं मनः ॥
  7. 7
    आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् ।सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे ॥
  8. 8
    पार्श्वतः पृष्ठतश्चास्य सर्वे स्वयम् ।अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् ॥
  9. 9
    स धि सुग्रीवः स्वरेण महता महान् ।पातयन्विविधांश्चान्यान्जगामोत्तमराक्षसान् ॥
  10. 10
    च महाकायो राक्षसान्वानरेश्वरः ।युगान्तसमये वायुः प्रवृद्धानगमानिव ॥
  11. 11
    राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ।अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥
  12. 12
    । ॥
  13. 13
    अथ राक्षसेषु समन्ततः ।सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ॥
  14. 14
    स्वकं नाम धन्वी विश्राव्य राक्षसः ।रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥
  15. 15
    स तं द्विरदमारुह्य विरूपाक्षो ।विनदन्भीमनिर्ह्रादं वानरानभ्यधावत ॥
  16. 16
    सुग्रीवे स शरान्घोरान्विससर्ज ।स्थापयामास चोद्विग्नान्राक्षसान्सम्प्रहर्षयन् ॥
  17. 17
    स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।चुक्रोध स महाक्रोधो वधे चास्य मनो दधे ॥
  18. 18
    ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः ।अभिपत्य जघानास्य प्रमुखे तु महागजम् ॥
  19. 19
    स तु प्रहाराभिहतः सुग्रीवेण महागजः ।अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥
  20. 20
    गजात्तु मथितात्तूर्णमपक्रम्य स ।राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥
  21. 21
    आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः ।भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥
  22. 22
    स हि तस्याभिसङ्क्रुद्धः प्रगृह्य विपुलां ।विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥
  23. 23
    स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः ।अपक्रम्य खड्गेन प्राहरत्तदा ॥
  24. 24
    तेन खड्गप्रहारेण रक्षसा बलिना हतः ।मुहूर्तमभवद्वीरो विसञ्ज्ञ इव वानरः ॥
  25. 25
    स तदा सहसोत्पत्य राक्षसस्य महाहवे ।मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥
  26. 26
    मुष्टिप्रहाराभिहतो विरूपाक्षो ।तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे ॥
  27. 27
    कवचं पातयामास पद्भ्यामभिहतोऽपतत् ।स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ॥
  28. 28
    तलप्रहारमशनेः समानं भीमनिस्वनम् ।तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ॥
  29. 29
    नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ।ततस्तु वानरेश्वरः ॥
  30. 30
    मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥
  31. 31
    ततो न्यपातयत्क्रोधाच्छङ्खदेशे महत्तलम् ।महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥
  32. 32
    पपात शोणितं च समुद्वमन् ।स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥
  33. 33
    विवृत्तनयनं क्रोधात्सफेनं रुधिराप्लुतम् ।ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥
  34. 34
    स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम् ।करुणं च विनर्दन्तं ददृशुः कपयो ॥
  35. 35
    तथा तु तौ सम्यति सम्प्रयुक्तौतरस्विनौ वानरराक्षसानाम् । सस्वनतुः सुभीमंमहार्णवौ द्वाविव भिन्नवेलौ ॥
  36. 36
    विनाशितं प्रेक्ष्य विरूपनेत्रंमहाबलं तं ।बलं समस्तं कपिराक्षसानांउन्मत्तगङ्गाप्रतिमं बभूव ॥