Vālmīki Rāmāyaṇa · The Consecration of Vibhīṣaṇa
Tap a verse for its meaning
- 1ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।जग्मुः स्वैःस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥
- 2। ॥
- 3अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।पतिव्रतात्वं सीताया हनूमति पराक्रमम् ।कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ॥
- 4राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥
- 5राघवेणाभ्यनुज्ञातो मातलिः ।दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥
- 6तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥
- 7परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः ।पूज्यमानो हरिश्रेष्ठैराजगाम ॥
- 8अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।सौमित्रिं सत्यसम्पन्नं लक्ष्मणं ॥
- 9विभीषणमिमं सौम्य लङ्कायामभिषेचय ।अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥
- 10एष मे परमः कामो यदीमं ।लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ॥
- 11एवमुक्तस्तु सौमित्री राघवेण महात्मना ।तथेत्युक्त्वा तु सौवर्णं घटमाददे ॥
- 12तं घटं वानरेन्द्राणां हस्ते दत्त्वा ।आदिदेश महासत्त्वा ॥
- 13इति शीघ्रं ततो गत्वा वानरास्ते ।आगतास्तज्जलं गृह्य समुद्रा ॥
- 14ततस्त्वेकं घटं गृह्य संस्थाप्य ।घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ॥
- 15लङ्कायां रक्षसां मध्ये राजानं ।विधिना सुहृद्गणसमावृतम् ॥
- 16अभ्यषिञ्चत्स शुद्धात्मानं विभीषणम् ।तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥
- 17दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः ॥
- 18सान्त्वयित्वा च ततो राममुपागमत् ।अक्षतान्मोदकाँल्लाजान्दिव्याः सुमनसस्तदा ॥
- 19आजह्रुरथ संहृष्टाः पौरास्तस्मै ।स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ॥
- 20। ॥
- 21। ॥
- 22अब्रवीद्राघवो वाक्यं हनुमन्तं ।अनुमान्य महाराजमिमं सौम्य विभीषणम् ॥
- 23गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ।प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ॥
- 24मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।आचक्ष्व वदतांश्रेष्ठ रावणं च मया हतम् ॥
- 25प्रियमेतदुदाहृत्य मैथिल्यास्त्वं ।प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ॥