Vālmīki Rāmāyaṇa · Pulastya and the Birth of Viśravas
Tap a verse for its meaning
- 1तस्य तद्वचनं श्रुत्वा महात्मनः ।कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ॥
- 2शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥
- 3तावत्ते रावणस्येदं कुलं जन्म च राघव ।वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥
- 4पुरा राम प्रजापतिसुतः प्रभुः ।पुलस्त्यो नाम साक्षादिव पितामहः ॥
- 5नानुकीर्त्या गुणास्तस्य शीलतस्तथा ।प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥
- 6प्रजापतिसुतत्वेन हि सः ।हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥
- 7स तु मेरोः पार्श्वे महागिरेः ।तृणविन्द्वाश्रमं गत्वा न्यवस ॥
- 8तपस्तेपे स धर्मात्मा ।गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥
- 9देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ॥
- 10सर्वर्तुषृपभोग्यत्वाननस्य च ।नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥
- 11देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः ।गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥
- 12अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥
- 13तास्तु सर्वाः तस्य वाक्यं महात्मनः ।ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥
- 14तृणबिन्दोस्तु राजर्षेस्तनया तत् ॥
- 15गत्वाश्रमपदं तत्र विचचार ।न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ॥
- 16तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥
- 17सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।अभव सा सुव्यञ्जितशरीरजा ॥
- 18वभूव च दृष्ट्वा तद्दोषमात्मनः ।इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽऽश्रमे स्थिता ॥
- 19तां तु दृष्ट्वा तथाभूतां ।किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥
- 20सा तु कृत्वाञ्जलिं दीना कन्योवाच ।न जाने कारणं तात येन मे रूपमीदृशम् ॥
- 21किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं ॥
- 22न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।रूपस्य तु दृष्ट्वा त्रासादिहागता ॥
- 23तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥
- 24स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥
- 25भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।भिक्षां प्रतिगृहाणेमां स्वयमुद्यताम् ॥
- 26तपश्चरणयुक्तस्य ते । नित्यं भविष्यति न संशयः ॥
- 27तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥
- 28दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।सापि तत्रावसत्कन्या पतिं गुणैः ॥
- 29तस्यास्तु शीलवृत्ताभ्यां तुतोष ।प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥
- 30परितुष्टो ऽस्मि गुणानां सम्पदा भृशम् ।तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ॥
- 31उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ॥
- 32तस्मात्स विश्रवा नाम भविष्यति न संशयः ।एवमुक्ता तु सा देवी न्तरात्मना ॥
- 33अचिरेणैव कालेनासूत विश्रवसं सुतम् । विख्यातं यशोधर्मसमन्वितम् ॥
- 34च व्रताचाररतस्तथा ।पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥