Vālmīki Rāmāyaṇa · The Mobilization of the Rākṣasas and the Coming of Viṣṇu
Tap a verse for its meaning
- 1तैर्वध्यमाना देवाश्च ऋषयश्च ।भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥
- 2जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् ।आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥
- 3ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।ऊचुः प्राञ्जलयो देवा ॥
- 4सुकेशपुत्रैर्भगवन्पितामह । प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥
- 5शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति ॥
- 6अहं विष्णुरहं रुद्रो ब्रह्माहं ।अहं यमश्च वरुणश्चन्द्रो ऽहं ॥
- 7इति माली सुमाली च माल्यवांश्चैव राक्षसाः ।बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।तन्नो देव भयार्तानामभयं दातुमर्हसि ॥
- 8अशिवं वपुरास्थाय जहि वै ॥
- 9इत्युक्तस्तु सुरैः सर्वैः ।सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥
- 10अहं तान्न हनिष्यामि मयावध्या हि ते सुराः ।किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥
- 11एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥
- 12ततस्तु प्रतिनन्द्य महेश्वरम् ।विष्णोः समीपमाजग्मु ॥
- 13देवं प्रणम्य बहुमान्य च ।ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥
- 14सुकेशतनयैर्देव त्रिभि ।आक्रम्य स्थानान्यपहृतानि नः ॥
- 15लङ्का नाम पुरी त्रिकूटशिखरे स्थिता ।तत्र स्थिताः प्रबाधन्ते सर्वान्नः ॥
- 16स त्वमस्मद्धितार्थाय जहि ता ।शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥
- 17वेदय यमाय वै ।भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ॥
- 18राक्षसान्समरे दुष्टान्सानुबन्धा ।नुदं त्वं नो भयं देव नीहारमिव भास्करः ॥
- 19इत्येवं दैवतैरुक्तो देवदेवो ।अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ॥
- 20सुकेशं राक्षसं जाने ।तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स ॥
- 21तानहं क्षसाधमान् ।निहनिष्यामि सङ्क्रुद्धः सुरा भवत ॥
- 22इत्युक्तास्ते सुराः सर्वे विष्णुना ।यथावासं ययु प्रशंसन्तो जनार्दनम् ॥
- 23विबुधानां समुद्योगं माल्यवांस्तु ।श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥
- 24अमरा सङ्गम्य किल शङ्करम् ।अस्मद्वधं इदं वचनमब्रुवन् ॥
- 25सुकेशतनया देव ।बाधन्ते ऽस्मान्समुद्दृप्ता पदे पदे ॥
- 26राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।स्वेषु सद्मसु संस्थातुं भयात्तेषां ॥
- 27तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।राक्षसा दह ॥
- 28इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥
- 29अवध्या मम ते देवाः सुकेशतनया ।मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥
- 30यो ऽसौ पीतवासा जनार्दनः ।हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ॥
- 31हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।नारायणालयं प्राप्य तस्मै सर्वं ॥
- 32ततो नारायणेनोक्ता इन्द्रपुरोगमाः । सुरा भवत विज्वराः ॥
- 33देवानां भयभीतानां हरिणा ।प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ॥
- 34हिरण्यकशिपोर्मृत्युरन्येषां च ।नमुचिः कालनेमिश्च संह्रादो ॥
- 35राधेयो च लोकपालो ऽथ ।यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥
- 36असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ॥
- 37सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।सर्वे सर्वे शत्रुभयङ्कराः ॥
- 38नारायणेन शतशो ऽथ सहस्रशः ।एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥
- 39ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।ऊचतुर्भ्रातरं ज्येष्ठं ॥
- 40स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥
- 41देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥
- 42नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।अस्माकं स्थातुं सर्वे सर्वदा ॥
- 43विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर ।देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥
- 44तस्मादद्य सर्वसैन्यसमावृताः ।देवानेव एभ्यो दोषः समुत्थितः ॥
- 45एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।उद्योगं घोषयित्वा तु सर्वे ॥युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥
- 46इति ते राम सम्मन्त्र्य राक्षसाः ।युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥
- 47स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥
- 48मकरैः कच्छपैर्मीनैर्विहङ्गै ।सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥
- 49त्यक्त्वा लङ्कां गताः सर्वे राक्षसा ।प्रयाता देवलोकाय योद्धुं ॥
- 50लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।भूतानि भयदर्शीनि सर्वशः ॥
- 51रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ॥
- 52प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥
- 53भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥
- 54मेघा ववृषुरुष्णं शोणितमेव च ।वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥
- 55मुञ्चन्तो घननादसमस्वनाः ।वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥
- 56सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ॥
- 57राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् ।कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥
- 58उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।यान्त्येव न निवर्त्तन्ते वपाशिताः ॥
- 59माल्यवांश्च च च सुमहाबलाः ।आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥
- 60माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥
- 61तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् । देवलोकं ययौ मालिवशे स्थितम् ॥
- 62राक्षसानां समुद्योगं तं तु ।देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥
- 63स सज्जायुधतूणीरो परि स्थितः ।आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥
- 64आबध्य शरसम्पूर्णे इषुधी विमले तदा ।श्रोणिसूत्रं च खड्गं च विमलं ॥शङ्खचक्रगदाशार्ङ्गखड्गाख्य ॥
- 65सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः ।राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥
- 66सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो ।काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥
- 67स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ।समाससादासुरसैन्यशत्रूं ॥
- 68सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥
- 69ततः शरैः शोणितमांसरूषितैतुल्यविग्रहैः ।निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥