Leave

Vālmīki Rāmāyaṇa · The Boons of Brahmā

Tap a verse for its meaning

  1. 1
    अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥
  2. 2
    अगस्त्यस्त्वब्रवीत्तत्र रामं ।तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥
  3. 3
    कुम्भकर्णस्ततो यत्तो नित्यं स्थितः ।तताप ग्रीष्मकाले तु रितः स्थितः ॥
  4. 4
    मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।नित्यं च शिशिरे काले ॥
  5. 5
    एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।धर्मे प्रयतमानस्य निष्ठितस्य च ॥
  6. 6
    विभीषणस्तु नित्यं धर्मपरः शुचिः ।पञ्चवर्षसहस्राणि तस्थिवान् ॥
  7. 7
    समाप्ते तस्य ननृतुश्चाप्सरोगणाः ।पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥
  8. 8
    पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।तस्थौ चोर्ध्वशिरोबाहुः धृतमानसः ॥
  9. 9
    एवं विभीषणस्यापि स्वर्गस्थस्येव ।दशवर्षसहस्राणि गतानि ॥
  10. 10
    दशवर्षसहस्रं तु निराहारो दशाननः ।पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ सः ॥
  11. 11
    एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । नव चाप्यस्य प्रविष्टानि ॥
  12. 12
    अथ वर्षसहस्रे तु दशमे दशमं शिरः । दशग्रीवे प्राप्तस्तत्र ॥
  13. 13
    पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।तव ताव प्रीतो ऽस्मीत्यभ्यभाषत ॥
  14. 14
    शीघ्रं वरय वरो यस्ते ऽभिकाङ्क्षितः ।कं ते कामं करोम्यद्य न वृथा ते ॥
  15. 15
    अथाब्रवीदृशग्रीवः ।प्रणम्य शिरसा देवं गिरा ॥
  16. 16
    भगवन्प्राणिनां नित्यं नान्यत्र ।नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥
  17. 17
    एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।नास्ति सर्वामरत्वं ते वरमन्यं मे ॥
  18. 18
    एवमुक्ते तदा राम ब्रह्मणा ।दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥
  19. 19
    सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।अवध्यो ऽहं देवतानां च शाश्वत ॥
  20. 20
    नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥
  21. 21
    एवमुक्तस्तु दशग्रीवेण रक्षसा ।उवाच वचनं देवः सह देवैः ॥
  22. 22
    भविष्यत्येवमेतत्ते वचो ।एवमुक्त्वा तु तं राम दशग्रीवं ॥
  23. 23
    शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।हुतानि यानि पूर्वमग्नौ त्वयानघ ॥
  24. 24
    पुनस्तानि भविष्यन्ति तथैव तव राक्षस ।वितरामीह ते सौम्य वरं चान्यं ॥
  25. 25
    छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ।भविष्यति न सन्देहो मद्वरात्तवराक्षस ॥
  26. 26
    एवं पितामहोक्तस्य दशग्रीवस्य ।अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ॥
  27. 27
    एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।विभीषणमथोवाच वाक्यं ॥
  28. 28
    विभीषण त्वया वत्स ।परितुष्टो ऽस्मि धर्मात्मन्वरं वरय ॥
  29. 29
    विभीषणस्तु धर्मात्मा वचनं प्राह ।वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥
  30. 30
    भगवन्कृतकृत्यो ऽहं यन्मे स्वयम् ।प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ॥
  31. 31
    धर्मे मम मतिर्भवेत् ।अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥
  32. 32
    या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ॥
  33. 33
    एष मे परमोदार वरः परमको मतः ।नहि धर्माभिरक्तानां लोके किञ्चन ॥
  34. 34
    पुनः प्रीतो विभीषणमुवाच ह ।धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥
  35. 35
    यस्मा ते जातस्यामित्रनाशन ।नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥
  36. 36
    इत्युक्त्वा वरं दातुमुपस्थितम् ।प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ॥
  37. 37
    न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।जानीषे हि यथा लोकांस्त्रासयत्येष ॥
  38. 38
    ऽप्सरसः सप्त महेन्द्रानुचरा दश ।अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥
  39. 39
    अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ।तदेष स्याद्भक्षये ॥
  40. 40
    मोहो ऽस्मै दीयताममितप्रभ ।लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ॥
  41. 41
    एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् ।चिन्तिता चोपतस्थे ऽस्य पार्श्वं ॥
  42. 42
    सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ।इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥
  43. 43
    प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् । त्वं राक्षसेन्द्रस्य भव या ॥
  44. 44
    तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।कुम्भकर्ण वरं वरय यो मतः ॥
  45. 45
    कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।स्वप्तुं वर्षाण्यनेकानि ममेप्सितम् ॥
  46. 46
    एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् ।देवी सरस्वती चैव राक्षसं तं पुनः ॥
  47. 47
    ब्रह्मणा सह देवेषु गतेषु च ।विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ॥
  48. 48
    कुम्भकर्णस्तु चिन्तयामास दुःखितः ।ईदृशं किमिदं वाक्यं ममाद्य ॥
  49. 49
    अहं व्यामोहितो देवैरिति मन्ये तदा ऽऽगतैः ।एवं सर्वे भ्रातरो ।श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥