Leave

Vālmīki Rāmāyaṇa · The Fall of Kuvera and the Seizing of Puṣpaka

Tap a verse for its meaning

  1. 1
    ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः ।धनाध्यक्षो महायक्षं माणिभद्रमथाब्रवीत् ॥
  2. 2
    रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥
  3. 3
    एवमुक्तो महाबाहु ।वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥
  4. 4
    ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।अभिघ्नन्तस्तदा मुपाद्रवन् ॥
  5. 5
    कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥
  6. 6
    ततो सगन्धर्वा ऋषयो ।दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥
  7. 7
    यक्षाणां तु सहस्रं निहतं रणे । चानिन्द्यं सहस्रमपरं हतम् ॥
  8. 8
    क्रुद्धेन च तदा राज युयुत्सुना । द्वे सहस्रे निपातिते ॥
  9. 9
    क्व च यक्षार्जवं युद्धं क्व च ।रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ॥
  10. 10
    समागम्य माणिभद्रो महारणे ।मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ॥
  11. 11
    ततो गदां समाविध्य माणिभद्रेण राक्षसः ।धूम्राक्षस्ताडितो मूर्ध्नि स पपात ह ॥
  12. 12
    धूम्राक्षं ताडितं दृष्ट्वा पतितं ।अभ्यधावत सङ्ग्रामे माणिभद्रं ॥
  13. 13
    तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।शक्तिभिस्ताडयामास तिसृभि ॥
  14. 14
    ताडितो माणिभद्रस्य प्राहरद्रणे ।तस्य तेन मुकुटं पार्श्वमागतम् ॥
  15. 15
    ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः । सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ॥
  16. 16
    ततो दूरात्प्रददृशे धनाध्यक्षो ।शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥
  17. 17
    स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् ।उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥
  18. 18
    यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥
  19. 19
    यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।स तस्य जानीते कर्मणः फलम् ॥
  20. 20
    देवता नाभिनन्दन्ति केनचित् ।येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ॥
  21. 21
    मातरं पितरं यो हि आचार्यं चावमन्यते ।स पश्यति फलं तस्य प्रेतराजवशं गतः ॥
  22. 22
    अध्रुवे हि शरीरे यो न करोति ।स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽऽत्मनो गतिम् ॥
  23. 23
    धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ।तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥
  24. 24
    हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।तस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥
  25. 25
    कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।देवं चेष्टयते सर्वं हतो दैवेन हन्यते ।यादृशं कुरुते तादृशं फलमश्नुते ॥
  26. 26
    बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।प्राप्नुवन्ति नरा लोके निर्जितं ॥
  27. 27
    एवं त्वं यस्य ते मतिरीदृशी ।न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ॥
  28. 28
    एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । सर्वे विमुखा विप्रदुद्रुवुः ॥
  29. 29
    ततस्तेन दशग्रीवो महात्मना ।गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥
  30. 30
    ततस्तौ राम निघ्नन्तौ तदान्योन्यं ।न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥
  31. 31
    आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।राक्षसेन्द्रो तदस्त्रं प्रत्यवारयत् ॥
  32. 32
    ततो मायां प्रविष्टो ऽसौ राक्षसीं ।रूपाणां शतसाहस्रं विनाशाय चकार च ॥
  33. 33
    व्याघ्रो वराहो जीमूतः सागरो द्रुमः ।यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ॥
  34. 34
    बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।प्रतिगृह्य ततो राम महदस्त्रं ॥
  35. 35
    जघान मूर्ध्नि धनदं व्याविद्ध्य ।एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥
  36. 36
    कृत्तमूल इवाशोको निपपात ॥
  37. 37
    ततः पद्मादिभिस्तत्र स तदा वृतः ।धनदोच्छ्वासितस्तैस्तु वनमानीय ॥
  38. 38
    निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।पुष्पकं तस्य जग्राह विमानं ॥
  39. 39
    संवीतं ।मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥
  40. 40
    मनोजवं कामगमं कामरूपं विहङ्गमम् ।मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥
  41. 41
    देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् ।बह्वाश्चर्यं भक्तिचित्रं परिनिर्मितम् ॥
  42. 42
    निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥
  43. 43
    स तं राजा समारुह्य कामगं ।जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥
  44. 44
    जित्वा वैश्रवणं देवं मवातरत् ॥
  45. 45
    स्वतेजसा विपुलमवाप्य तं जयं मलकिरीटहारवान् ।रराज वै परमविमानमास्थितो सदसि गतो यथानलः ॥