Leave

Vālmīki Rāmāyaṇa · The Sacrifice of King Marutta

Tap a verse for its meaning

  1. 1
    प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥
  2. 2
    ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।उशीरबीजमासाद्य ददर्श स तु रावणः ॥
  3. 3
    संवर्तो नाम साक्षाद्भ्राता बृहस्पतेः ।याजयामास सर्वैर्देवगणैर्वृतः ॥
  4. 4
    दृष्ट्वा देवास्तु तद्रक्षो दुर्जयम् ।तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥
  5. 5
    इन्द्रो संवृत्तो धर्मराजस्तु ।कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ॥
  6. 6
    अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन ।रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥
  7. 7
    तं च राजानमासाद्य रावणो ।प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ॥
  8. 8
    ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥
  9. 9
    अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव ।धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥
  10. 10
    को ऽन्यो ऽस्ति यो न जानाति मे बलम् ।भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ।ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥
  11. 11
    खलु भवान्येन रणे जितः ।न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ॥
  12. 12
    नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् ।कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ॥
  13. 13
    कं त्वं प्राक्केवलं धर्मं चरित्वा ।श्रुतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥
  14. 14
    तिष्ठेदानीं न मे जीवन्प्रतियास्यसि ।अद्य त्वां निशितैर्बाणैः प्रेषयामि ॥
  15. 15
    ततः शरासनं गृह्य सायकांश्च नराधिपः ।रणाय निर्ययौ क्रुद्धः मार्गमावृणोत् ॥
  16. 16
    सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ॥
  17. 17
    माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ॥
  18. 18
    कुतो युद्धं क्रोधित्वं दीक्षिते कुतः ।संशयश्च जये नित्यं राक्षसश्च ॥
  19. 19
    स निवृत्तो गुरोर्वाक्यान्मरुत्तः ।विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ॥
  20. 20
    ततस्तं निर्जितं मत्वा घोषयामास वै ।रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ॥
  21. 21
    तान्भक्षयित्वा तत्रस्था ।वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ॥
  22. 22
    रावणे तु गते देवाः सेन्द्राश्चैव ।ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥
  23. 23
    हर्षात्तदाब्रवीदिन्द्रो मयूरं ।प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥
  24. 24
    इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति ।वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् ।एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥
  25. 25
    नीलाः किल पुरा बर्हा मयूराणां ।सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ॥
  26. 26
    धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।पक्षिंस्तवास्मि प्रीतस्य वचनं शृणु ॥
  27. 27
    यथान्ये विविधै पीड्यन्ते प्राणिनो मया ।ते न ते मयि प्रीते न संशयः ॥
  28. 28
    मृत्युतस्ते भयं नास्ति वरान्मम ।यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥
  29. 29
    एते मद्विषयस्था वै मानवाः ।त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति ॥
  30. 30
    वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् ।श्रूयतां प्रीतिसंयुक्तं वचः ॥
  31. 31
    वर्णो मनोहरः सौम्य ।भविष्यति तवोदग्रः ॥
  32. 32
    मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।प्राप्स्यसे चातुलां प्रीतिमेतन्मे ॥
  33. 33
    हंसानां हि पुरा राम ।पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥
  34. 34
    अथाब्रवी कृकलासं गिरौ स्थितम् ।हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥
  35. 35
    सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥
  36. 36
    एवं दत्त्वा वरांस्तेभ्यस्तस्मि सुराः ।निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ॥