Vālmīki Rāmāyaṇa · Rāvaṇa by the Narmadā
Tap a verse for its meaning
- 1ततो रामो महातेजा विस्मयात्पुनरेव हि ।उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥
- 2क्रूरो यदाप्रभृति मेदिनीम् ।पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ॥
- 3वा राजमात्रो वा किं तदा नात्र कश्चन ।धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ॥
- 4उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।बहिष्कृता वरास्त्रैश्च बहवो निर्जिता ॥
- 5वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥
- 6इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।चचार रावणो राम पृथिवीं पृथिवीपते ॥
- 7ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।सम्प्राप्तो यत्र सान्निध्यं सदासी ॥
- 8तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥
- 9तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली ।अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥
- 10तमेव दिवसं सो ऽथ रावणस्तत्र आगतः ।रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥
- 11क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ ।रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥
- 12इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः ।अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥
- 13श्रुत्वा पौराणामर्जुनं गतम् ।अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥
- 14स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् ।अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥
- 15सहस्रशिखरोपेतं सिंहाध्युषित ।प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ॥
- 16साप्सरोगणकिन्नरैः ।स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ॥
- 17स्यन्दमानाभिः स्फटिकप्रतिमं जलम् ।फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥
- 18उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् ।पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ॥
- 19चलोपलजलां पुण्यां ॥
- 20सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ॥
- 21सकारण्डैः ।सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ॥
- 22फुल्लद्रुमकृतोत्तंसां ।विस्तीर्णपुलिनश्रोणीं हंसावलिसु ॥
- 23पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ।पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ॥
- 24इष्टामिव वरां नारीमवगाह्य ।स तस्याः पुलिने रम्ये नानामुनिनिषेविते ॥
- 25उपोपविष्टैः सार्धं ।प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ॥
- 26नर्मदादर्शजं हर्षमाप्तवान् ।उवाच सचिवांस्तत्र सलीलं ॥
- 27एष जगत्कृत्वैव काञ्चनम् ।तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ॥
- 28मामासीनं विदित्वैव चन्द्रायति ॥
- 29नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ।मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ॥
- 30इयं वापि सरिच्छ्रेष्ठा नर्मवर्धिनी ।नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ॥
- 31तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।चन्दनस्य रसेनेव समुक्षिताः ॥
- 32ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ।महापद्ममुखा मत्ता गङ्गामिव महागजाः ।अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥
- 33अहमप्यद्य शरदिन्दुसमप्रभे ।पुष्पोपहारं शनकैः करिष्यामि ॥
- 34रावणेनैवमुक्तास्तु ।समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥
- 35राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नदी ।वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ॥
- 36ततस्ते स्नात्वा नर्मदायां महाबलाः ।उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥
- 37हृद्ये शुभ्राभ्रसदृशप्रभे ।राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ॥
- 38पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ।अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥
- 39तत्र च विधिवज्जप्त्वा जप्यमनुत्तमम् ।नर्मदासलिलात्तस्मादुत्ततार स ॥
- 40ततः क्लिन्नाम्बरं त्यक्त्वा ।रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ॥
- 41तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ।यत्र यत्र च याति स्म रावणो राक्षसेश्वरः ।जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥
- 42तु तल्लिङ्गं स्थाप्य ।अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥
- 43ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् ।समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्ता चाग्रतः ॥