Leave

Vālmīki Rāmāyaṇa · The Story of Vṛtra

Tap a verse for its meaning

  1. 1
    तथोक्तवति रामे तु भरते च महात्मनि ।लक्ष्मणो ऽथ शुभं वाक्यमुवाच ॥
  2. 2
    अश्वमेधो महायज्ञः सर्वपाप्मनाम् ।पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥
  3. 3
    श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।वृतः शक्रो हयमेधेन पावितः ॥
  4. 4
    पुरा किल महाबाहो देवासुरसमागमे ।वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ॥
  5. 5
    विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।अनुरागेण लोकांस्त्रीश्यति सर्वतः ॥
  6. 6
    धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥
  7. 7
    तस्मिन्प्रशासति तदा ।रसवन्ति प्रसूनानि मूलानि च फलानि च ॥
  8. 8
    पृथिवी सुसम्पन्ना महात्मनः ।स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥
  9. 9
    तस्य बुद्धिः समुत्पन्ना कुर्यामनुत्तमम् ।तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ॥
  10. 10
    स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।तप उग्रं समातिष्ठ ॥
  11. 11
    तपस्तप्यति वृत्रे तु परमार्तवत् ।विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥
  12. 12
    तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः ।बलवान्स हि नैनं शक्ष्यामि शासितुम् ॥
  13. 13
    यद्यसौ तप आतिष्ठेद्भूय एव ।यावल्लोका धरिष्यन्ति तावदस्य ॥
  14. 14
    तं चैनं परमोदारमुपेक्षसि महाबलम् ।क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि ॥
  15. 15
    यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥
  16. 16
    स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमरुजं जगत् ॥
  17. 17
    इमे हि सर्वे विष्णो त्वां निरीक्षन्ते । महता तेषां साह्यं कुरुष्व ह ॥
  18. 18
    त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥