Vālmīki Rāmāyaṇa · The Restoration of King Ila
Tap a verse for its meaning
- 1तथोक्तवति तु तस्य तदद्भुतम् ।उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥
- 2इला सा संवत्सरमथोषिता ।अकरोत्किं तत्त्वं शंसितुमर्हसि ॥
- 3तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।रामः पुनरुवाचेमां कथाम् ॥
- 4पुरुषत्वं गते शूरे परमबुद्धिमान् ।संवर्तं परमोदारमाजुहाव महायशाः ॥
- 5च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥
- 6एतान्सर्वान्समानीय वाक्यज्ञ ।उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥
- 7अयं राजा कर्दमस्य इलः सुतः ।जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥
- 8तेषां संवदतामेव तमाश्रममुपागमत् ।कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥
- 9पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ॥
- 10ते सर्वे परस्परसमागमे ।हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥
- 11कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः हि ॥
- 12नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ।तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ॥
- 13कर्दमेनैवमुक्तास्तु सर्व एव ।रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥
- 14संवर्तस्य तु राजर्षेः शिष्यः । इति विख्यातस्तं यज्ञं समुपाहरत् ॥
- 15ततो यज्ञो महानासी ।रुद्रश्च परमं तोषमाजगाम महायशाः ॥
- 16अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।उमापतिर्द्विजान्सर्वानुवाच ॥
- 17प्रीतो ऽस्मि भक्त्या च द्विजसत्तमाः ।अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥
- 18तथा वदति द्विजास्ते सुसमाहिताः ।प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥
- 19ततः प्रीतो पुरुषत्वं ददौ पुनः ।इलायै सुमहातेजा दत्त्वा चान्तरधीयत ॥
- 20निवृत्ते हयमेधे च गतश्चादर्शनं ।यथागतं द्विजाः सर्वे ह्यगच्छ ॥
- 21राजा तु बाह्लिमुत्सृज्य ह्यनुत्तमम् ।निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥
- 22शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः ।प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥
- 23स काले प्राप्तवाँल्लोकमिलो ।ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥
- 24ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥