Vālmīki Rāmāyaṇa · Preparations for the Horse Sacrifice
Tap a verse for its meaning
- 1एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥
- 2वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥
- 3एतान्सर्वान्समानीय च लक्ष्मण ।हयं लक्षणसम्पन्नं विमोक्ष्यामि ॥
- 4तद्वाक्यं राघवेणोक्तं श्रुत्वा ।द्विजान्सर्वा दर्शयामास राघवम् ॥
- 5ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥
- 6स तदा भूत्वा राघवो द्विजसत्तमान् ।आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ॥
- 7ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा ।अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म ॥
- 8स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ॥
- 9कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् । द्रुतं दूतान् सुग्रीवाय महात्मने ॥
- 10यथा महद्भिर्हरिभिर्बहुभिश्च ।सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं ॥
- 11बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥
- 12राजानश्च महाभागा ये मे । क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥
- 13देशान्तरगता ये च द्विजा ।आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ॥
- 14ऋषयश्च महाबाहो आहूयन्तां ।देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।तथैव तालावचरास्तथैव ॥
- 15यज्ञवाटश्च सुमहान्गोमत्या ।आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥
- 16शान्तयश्च महाबाहो प्रवर्त्यन्तां ॥
- 17शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।अनुभूय महायज्ञं नैमिशे ॥
- 18तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि ।प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥
- 19शतं वपुष्मताम् ।अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ॥
- 20चणकानां कुलित्थानां माषाणां च ।अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ॥
- 21सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।अग्रतो कृत्वा गच्छत्वग्रे समाधिना ॥
- 22अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥
- 23भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ॥
- 24कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च ।मम मातॄस्तथा सर्वाः कुमारान्तःपुराणि च ॥
- 25काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥
- 26उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।सानुगानां नरश्रेष्ठो महाबलः ॥