Vālmīki Rāmāyaṇa · The Injunction of Vālmīki
Tap a verse for its meaning
- 1वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।सशिष्य आजगामाशु वाल्मीकि ॥
- 2स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।एकान्ते ऋषिवाटानां चकार ॥
- 3शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥
- 4आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।वाल्मीकिः सुमहातेजा न्यवस ॥
- 5स शिष्यावब्रवीद्धृष्टौ युवां गत्वा ।कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥
- 6ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।रथ्यासु पार्थिवानां गृहेषु च ॥
- 7रामस्य भवनद्वारि यत्र कर्म च कुर्वते ।ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥
- 8इमानि च फलान्यत्र च ।जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ॥
- 9न यास्यथः श्रमं भक्षयित्वा फलानि वै ।मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥
- 10यदि शब्दापयेद्रामः श्रवणाय ।ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥
- 11दिवसे विंशतिः सर्गा गेया ।प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥
- 12लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया ।किं धनेनाश्रमस्थानां फलमूलोपजीविना ॥
- 13यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ।आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ॥
- 14इमा सुमधुराः स्थानं वा ऽपूर्वदर्शनम् ।मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ॥
- 15आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।पिता हि सर्वभूतानां राजा भवति ॥
- 16तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।गायेथां मधुरं गेयं ॥
- 17इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा ।वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥
- 18सन्दिष्टौ मुनिना तेन तावुभौ ।तथैव करवावेति निर्जग्मतुररिन्दमौ ॥
- 19तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ॥