Leave

Vālmīki Rāmāyaṇa · The Kingdoms of Lakṣmaṇa’s Sons

Tap a verse for its meaning

  1. 1
    तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ॥
  2. 2
    इमौ कुमारौ सौमित्रे तव ।अङ्गदश्चन्द्रकेतुश्च राज्यार्थे ॥
  3. 3
    इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।रमणीयो ह्यसम्बाधो रमेतां यत्र ॥
  4. 4
    न राज्ञो यत्र पीडा स्यान्नाश्रमाणां ।स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥
  5. 5
    तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।अयं कारुपथो देशो रमणीयो ॥
  6. 6
    निवेश्यतां तत्र पुरमङ्गदस्य ।चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥
  7. 7
    तद्वाक्यं भरतेनोक्तं राघवः ।तं च कृत्वा वशे देशमङ्गदस्य ॥
  8. 8
    पुरी रम्याप्यङ्गदस्य निवेशिता ।रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥
  9. 9
    चन्द्रकेतोश्च मल्लभूम्यां निवेशिता ।चन्द्रकान्तेति विख्याता दिव्या यथा ॥
  10. 10
    ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥
  11. 11
    अभिषिच्य कुमारौ स राघवः ।अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥
  12. 12
    अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥
  13. 13
    लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥
  14. 14
    भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥
  15. 15
    उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ॥
  16. 16
    एवं दश तेषां ययुस्तदा ।धर्मे प्रयतमानानां नित्यदा ॥
  17. 17
    विहृत्य कालं श्रिया वृता सुसंस्थिताः ।त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ॥